________________
धरणेन्द्रपद्मावतीसंपूजिताय ॐ ह्रीँ श्री
A
श्री शंखेश्वर पार्श्वनाथाय नमः श्री दान- प्रेम - हीरसूरिगुरुभ्यो नमः ऐं नमः ॥
महोपाध्याय - श्रीमद् - यशोविजयगणिविरचितस्वोपज्ञवृत्तियुतः
गुरुतत्त्वविनिश्चयः ।
ऐन्द्रश्रेणितं नत्वा जिनं स्याद्वाददेशिनम् । स्वोपज्ञं विवृणोम्येनं, गुरुतत्त्वविनिश्चयम् ॥१॥ इह हि "सकलोऽपि शुभारम्भो गुर्वायत्तः" इत्यस्य प्रकरणस्यारम्भः, तत्रेयं प्रथमगाथा - पासजिणिंद, संखेसरसंठियं हिअट्ठा, गुरुतत्तविणिच्छयं वुच्छं ॥१॥
महाभागं ।
पणमिय अत्तट्ठीण
'पणमिय'त्ति । अहं 'गुरुतत्त्वविनिश्चयं ' गुरुतत्त्वस्य विनिश्चयो यस्मादेतादृशमुपदेशं वक्ष्ये इति प्रतिज्ञा, अनया च शिष्यावधानं कृतं भवति । प्रयोजनमाह – ' आत्मार्थिनां ' मोक्षैकाकाङ्क्षावतां हितार्थम् भवति खल्वस्मादुपदेशात्तत्त्वज्ञानावाप्तिमिथ्याज्ञाननिवृत्तिद्वाराऽऽत्मार्थिनां हितम् । वक्ष्ये इत्युत्तरक्रियायाः पूर्वक्रिया सापेक्षत्वात्तामाह--' प्रणम्य ' कायवाङ्मनोभिर्नत्वा, कं पार्श्वजिनेन्द्रम्, किंभूतं ? शङ्खेश्वरसंस्थितम् पुनः किंभूतं ? ' महाभागं ' निरुपमप्रभावम् । अत्र च भगवतश्चत्वारो मूलातिशयाः सूचिताः, तथाहि-- जिनेन्द्रपदे नापायापगमातिशयः सूचितः, जयन्ति रागादिशत्रूनिति जिनास्तेष्विन्द्र इति व्युत्पत्तेः रागादिवैरिनिर्मूलनेनैव तत्त्वतोऽपायापगमसिद्धेः । शङ्खश्वरसंस्थितमित्यनेन पूजातिशयः, शतेश्वरावस्थितप्रभुप्रतिमायाः प्रत्यक्षत एव जगज्जनकृतपूजाप्रकर्षोपलम्भात् । अथवा जिनेन्द्रपदेनैव पूजातिशयः, जगत्पूज्यानामपि जिनानामिन्द्रत्वेन भगवतः परमपूज्यत्वव्यवस्थितेः । शङ्खश्वरसंस्थितमित्यनेन चापायापगमातिशयः, जरासिन्धुप्रयुक्त यादवजराकप्रकरापहारकरणेनैव भगवत्प्रतिमायाः शङ्खश्वरपुरे व्यवस्थापनात् । महाभागविशेषणेन च ज्ञानवचनातिशयौ, लोकालोकावलोकनक्षम केवला लोकसर्व सन्देह सन्दोह निराकरणक्षमतत्त्वप्रतिपादकवचनगुणाभ्यामेव निरुपम प्रभावत्वाभिधानात् । अथवा महाभागपदेनैवावृत्त्या चत्वारोऽतिशया लभ्यन्ते, तथाहि---मशब्देन मान उच्यते “मो मन्त्रे मन्दिरे माने” इति वचनात् तं सकलापायमूलभूतं हन्तीति महा, आभां - परमपूज्यतालक्षणां शोभां गच्छतीत्याभागः ततो विशेषणसमास इत्यपाया૧. વિશ્વશ ભુકૃત એકાક્ષર નામમાલા શ્લોક ૯
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org