________________
२०४ ]
। स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते यदि दर्दुरप्रभृतीन तिर्यक्पञ्चेन्द्रियान्मनाक्संघट्टयति तत एकाशनकम् , अथानागाढं परितापयति तत आचाम्लम् । तथानन्तवनस्पतिकाथिकद्वित्रिचतुरिन्द्रियाणां सङ्घट्टने पूर्वार्द्धम् , एतेषामेवानागाढपरितापने एकाशनम् । तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्टने निर्विकृतिकम् , 'अनागाढपरितापने पूर्वार्द्धम् , आगाढपरितापने एकाशनम् , जीविताद् व्यपरोपणे आचाम्लमिति ॥४४॥
अपरिण्णा कालाइसु, अपडिक्कंतस्स णिविगइअं तु ।
निव्विइयं पुरिमड़े, अंबिल खवणा य आवासे ॥४५॥ 'अपरिण'त्ति । 'अपरिज्ञा' प्रत्याख्यानपरिज्ञाया अग्रहणं गृहीताया वा भङ्गः, तत्र सूत्रे विभक्तिलोप आर्षत्वात् , तथा कालादिषु 'अप्रतिकमतः' अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिकम् । किमुक्तं भवति ? यदि नमस्कारपौरुष्यादिदिवसप्रत्याख्यानं वैकालिकं च पानाहारप्रत्याख्यानं न गृह्णाति गृहीत्वा वा विराधयति, तथा स्वाध्याय प्रस्थाप्य यदि कालस्य न प्रतिकामति, न काल तिक्रमणनिमित्तं कायोत्सर्ग करोति, आदिशब्दायेषु स्थानेवीर्यापथिकया प्रतिक्रमितव्यं तेषु चेत्तथा न प्रतिक्रामति तदा प्रायश्चित्तं निर्विकृतिकपूर्वार्द्धाचाम्लक्षपणानि । इयमत्र भावना-आवश्यके यद्येकं कायोत्सर्ग न करोति ततः प्रायश्चित्त निर्विकृतिकम् , कायोत्सर्गद्वयाकरणे पूर्वार्द्धम् , त्रयाणामपि कायोत्सर्गाणामकरणे आचाम्लम् , सर्वस्यापि चावश्यकस्याकरणेऽभक्तार्थ इति ।।४५॥
(सूचना :- ४४-४५ सेमे गाथासामा उस प्रायश्चित्तन। विषय पाथी गाड़ी એ બે ગાથાઓ છોડી દીધી છે. આ બે ગાથાઓ વ્યવહારસૂત્ર (પીઠિકામાં ભાષ્યગાથા १०-११) मांथा सेवामां मावी छे.)
जं जस्स व पच्छित्तं, आयरियपरंपराइ अविरुद्धं ।
जोगा य बहुविगप्पा, एसो खलु जीअकप्पो उ॥४६॥ 'जं जस्स वत्ति । यत्प्रायश्चित्तं 'यस्य' आचार्यस्य गच्छे आचार्यपरम्परागतत्वेन 'अविरुद्धं न पूर्वपुरुषमर्यादातिक्रमेण विरोधभाग् । यथा-अन्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भङ्गे प्रायश्चित्तमाचाम्लम् । तथा कल्पव्यवहारयोश्चन्द्रप्रज्ञप्तिसूर्यप्रज्ञप्त्योश्च केचिदागाढं योगं प्रतिपन्ना अपरे त्वनागाढमिति । 'एषः' सर्वोऽपि खलु गच्छभेदेन प्रायश्चित्तभेदो योगभेदश्वाचार्यपरम्परागतः 'जीतकल्पः' जीतव्यवहारो वेदितव्यः ।।४।। (પ્રાયશ્ચિત્તના અને યોગના વિષયમાં છત વ્યવહાર જણાવે છે:-)
જે આચાર્યના ગચ્છમાં જે પ્રાયશ્ચિત્ત અને યોગ અવિરુદ્ધ હોય તે જીવકલ્પ છે. અવિરુદ્ધ એટલે આચાર્ય પરંપરાથી આવેલું હોવાના કારણે પૂર્વ પુરૂષેની મર્યાદાનું ઉલંઘન ન કરનાર. પ્રાયશ્ચિત્તમાં અને યુગમાં અનેક ભેદ છે. જેમ કે નવકારસી,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org