________________
१६० ]
[ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते दर्शनतो भुक्तभोगिनोsपि निपुणस्यापि क्षोभप्रसङ्गादिति । पानकं योग्यमाहारं च प्रत्याख्यातुस्तत्र प्रदेशे वृषभाः स्थापयन्ति यत्र प्रत्याख्यातुरपरिणतानां वा नागमनम्, अन्यथा गृद्ध्यप्रत्ययदोषप्रसङ्गात् । " तथा निर्यापकाः पार्श्वस्थादिलक्षणवर्जिताः कालोचितगुणाः प्रियधर्माणः क्रियन्ते,
चोद्वर्त्तनकारिणश्चत्वारोऽभ्यन्तरमूलेऽपि चत्वारः संस्तारकारका अपि चत्वारो धर्मकथकचत्वारो लोकस्योल्लुण्ठवचनप्रतिकारिणो वादिनोऽपि चत्वारोऽग्रद्वारेऽपि चत्वारो भक्तनेतारश्वत्वारः पानकनेतारश्चत्वार उच्चारपरिष्ठापकाश्चत्वारः प्रस्रवणपरिष्ठापकाश्चत्वारो बहिर्लोकस्य धर्मकथ काश्चत्वारश्चतसृष्वपि दिक्षु सहस्रमल्लाश्चत्वारः इत्येवमष्टचत्वारिंशदपेक्ष्यते । जघन्यतस्तु त्रयो भवन्ति । तत्र द्वौ गीतार्थौ निर्यापको प्रत्याख्याता चैकः । तत्रैकः प्रत्याख्यातुः पार्श्वे तिष्ठति, अपरश्च भक्तपानमार्गणाय गच्छतीति । " तथा भक्तप्रत्याख्यायकस्य चरमकालेऽतीवाहारकाङ्क्षा समुत्पद्यते तद्वयवच्छेदार्थमिष्टश्चरमाहारो दातव्यो यतस्तेन तृष्णाव्यवच्छेदाद्वैराग्यभावना प्रवर्त्तत इति । " आहारानुबन्धे च कस्यचिज्जायमाने प्रतिदिनमाहारद्रव्यहान्या हितशिक्षया च तस्याहारतृष्णाविच्छेदः कर्त्तव्यः समाहितश्च प्रज्ञाप्यो भवतीति समाध्यर्थं परिहान्या तस्य दानमिति । “तथाऽपरिश्रान्तैः प्रतिचारकैः सर्वं प्रतिकर्म कर्त्तव्यम्, एतदर्थमेव गच्छस्यापेक्षणात् । " तथान्यतरयोगेऽप्यसङ्ख्येयभवार्जितं कर्म क्षपयति साधुर्विशिष्य स्वाध्याये, ततोऽपि विशिष्य वैयावृत्त्ये, ततोsपि विशिष्योत्तमार्थ इति । "संस्तारकश्चास्य भूः शिला वाऽझुषिरा कार्या, तत्र स्थितो निषण्णो वा यथासमाधि तिष्ठतु । फलकं वा एकाङ्गिकमानेतव्यम्, तदभावे द्रयादिफलकात्मकमपि । तत्रास्तरणमुत्सर्गतः सोत्तरपट्टस्य संस्तारकस्य कर्त्तव्यम्, अपवादतो बहूनामपि कल्पातथाप्यसंस्तरणे दर्भादीनामझुषिराणां तदभावे झुषिरतृणानामपि यथासमाधि यावत्तूलिकादेरपि । तथोपधेः प्रतिलेखनां प्रत्याख्यानी स्वयमेव करोति, असमर्थस्य तु सर्वमन्ये कुर्वन्ति । " तथा यः कायोपचितो बलवांस्तस्य बहिर्निष्क्रमणप्रवेशनादि कारयति तथाप्यविषहमाणं तं संस्तरगतं संस्तारयन्ति, तस्य समाध्यर्थं मृदुः संस्तारकः कर्त्तव्यः तथाप्यसंस्तरणे प्रत्याख्याननिस्तारक देश विरतादिदृष्टान्तेन प्रोत्साहनीयः । तथा प्रथमद्वितीयपरीषहाभ्यां व्याकुलितो यद्यवभाषेत भक्तं पानं वा तदा परीक्षणीयः 'किमयं प्रान्तदेवतया च्छलितोऽवभाषते स्वभावतो वा ?" इति, तत्र यदि समस्तमवितथं ब्रूते तदा तस्य यथोचितं दातव्यम् । किं कारणं प्रत्याख्याप्य पुनराहारो दीयते ? परीषहचमूयोधनाय कवचप्रायोऽयमाहार इति हेतोः, उज्झितशरीरस्यापि समाधिसंधानस्यात एव सिद्धेः । तथा कालगतस्य चिह्नकरणादिविधिपूर्वं परिष्ठापना कर्त्तव्या ।
नाम्,
२२
२४
" तथा स भक्तप्रत्याख्याता गृहिणां न प्रकाश्यते यतः कदाचित्परिषहोदयेन व्याघाते समस्तप्रवचन लघुतापत्तिः स्यात् । उत्पन्ने च व्याघाते गीतार्थैरुपायः प्रयोक्तव्यो यावत्ससहायस्यान्यत्र ज्ञातस्य तस्य प्रेषणमिति । यस्तु तं भक्तपरिज्ञाव्याघातवन्तं निन्दति तस्यानुद्घाताश्चत्वारो मासाः । यस्तु न ज्ञातः स यदि न निस्तरति तथापि न प्रवचनोड्डाह इत्यादि । तस्मादिदानीमपि निर्यापकानां सत्त्वाञ्चरणाराधनानिर्वाहात् सिद्धं दुष्प्रसहान्तमविच्छिन्नं चरणम् ॥ २०१ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org