________________
गुरुतत्त्वविनिश्चये प्रथमोल्लासः ]
[ १५९ निर्यापकानामभावाच्चारित्रं नास्तीत्यपि नास्तीत्याह
णिज्जवगाण वि इण्हि, गीयत्थाणं असंभवो णत्थि ।
तम्हा सिद्धं चरणं, दुप्पसहतं अविच्छिण्णं ॥२०१॥ 'निज्जवगाण वित्ति । निर्यापकानामपीदानी गीतार्थानामसम्भवो नास्ति, लेशतस्तद्विधिज्ञानां गीतार्थानामिदानीमपि प्रत्यक्षत्वात् । तद्विधिलेशश्चायम् --*संलेखनां कृत्वा भक्तपरिज्ञाधन्यतरं प्रतिपत्तुकामो "गीतार्थस्य 'संविग्नस्य च पादमूलं क्षेत्रतः पञ्च षट् सप्त वा शतानि सातिरेकाणि वा कालत एकं द्वे त्रीणि वा यावद् द्वादश वर्षाण्यन्वेषयेत् । अगीतार्थस्यासंविग्नस्य वा समीपे प्रत्याख्याने चतुर्गुरुप्रायश्चित्तम्, यतोऽगीतार्थः क्षुत्पिपासाभ्यां निशि बाधितस्य प्रत्याख्यानिनोऽकल्प्यमिति कृत्वा न दद्यात्तं त्यक्त्वा च गच्छेत् । असंविग्नश्चाधाकर्मिकाद्यपि गृहीयात् पुष्पादीन्यपि ढौकयेत् । “निर्यापक एको न कर्त्तव्यः किन्तु बहवः' एकेन पानकादिग्रहणप्रवृत्तेन 'मा भूद् ग्लानस्यासमाधिः' इत्याधाकर्मिकस्यापि ग्रहणप्रसङ्गात् , तदानीं मरणसमयेऽसमाध्युत्पादनायोगात् । किञ्चैवं समीपे मुक्तेनापरिणतेन शैक्षेण ग्लानयाचितस्य भक्तस्यादानेऽसमाधिमरणप्रसङ्गः, शैक्षा वा निधर्माणो भवेयुः 'स्थापनामात्रं प्रत्याख्यानमेतदिति हिंसादिप्रत्याख्यानान्यप्येवमेव' इति, तैश्चादीयमाने भक्ते ग्लानोऽपि कूजति 'बलान्मामेते मारयन्ति' इति, शैक्षा अप्यवज्ञां प्रकाशयन्तीति प्रवचनोड्डाहः स्यादिति । 'गुरुणा च स्वयं देवताद्युपदेशेन वाऽऽभोगः कर्त्तव्यः 'किमयं प्रत्याख्यानपारं गमिष्यति न वा ? । तत्र पारग एष्टव्यः, अपारगे इष्यमाणे गुरोश्चत्वारो गुरुकाः । “एकः संस्तारगतो द्वितीयः संलिखति, तथा तृतीयो यद्यन्य उपतिष्ठते तदा प्रतिषेधः कर्तव्यः निर्यापकाणामसंस्तरणाद्, बहूनां तेषां संस्तरतामनुमतौ च न निषेधः । यदि कृतप्रत्याख्यानस्य प्रत्याख्यानासंस्तरणं भवेत् स च सर्वत्र ज्ञातो दृष्टश्च भूयसा लोकेन तदा द्वितीयः संलेखनां कुर्वन् स्थाप्यते, अन्तरा चिलिमिली क्रियते, वन्दकाश्च बहिरेव स्थाप्यन्ते । "तथा गच्छमापृच्छय प्रत्याख्यानिनः प्रतीच्छा कर्तव्याऽन्यथा चत्वारो गुरुकाः । ''प्रत्याख्यानिनो गच्छसाधूनामपि च मिथः परीक्षा विधेयाऽन्यथापि चत्वारो गुरुकाः । तथाचार्येण प्रष्टव्य 'त्वया किं संलिखितं न वा ?' इति, यदि स क्रोधावेशादगुली भकत्वा दर्शयति 'पश्य मे शरीरे यद् द्रष्टव्यम्' इति, तदाचार्येण वक्तव्यं 'नाहं द्रव्यसंलेखनां पृच्छामि, भावसंलेखनयेन्द्रियकषायादीन् कृशीकुरु' इति । तथा प्रत्याख्यातुकामेन स्वयं शोधिं जानताऽजानता वाचार्यपादमूले गत्वा शोधिः कर्तव्या, इत्यमेव परमार्जवसिद्धेः । तत्र प्रव्रज्यात आरभ्य ज्ञानादित्रयस्य द्रव्यादिचतुष्टयेनातिचारालोचनं कर्त्तव्यम् , स्फुटमज्ञायमानानां चातिचाराणां 'यान् मेऽतिचारान् जिना जानन्ति तानहमालोचयामि' इति संमुग्धाकारेणालोचनं कार्यमित्थमपि भावशुद्धेः । "स्थानं च तस्य तादृशं ग्राह्य यत्र ध्यानव्याघातो न भवति यत्रेन्द्रियप्रतिसञ्चारो न भवति "तादृशप्रशस्तवसतिद्वयं ग्राह्यम् , एकस्यां प्रत्याख्याता स्थाप्यतेऽपरस्यां साधवः, अशनागिन्धेन प्रत्याख्यातुरभिलाषो मा भूत , सत्स्वाहारधर्मेष्वाहार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org