SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ १८५. सुभाषितरत्नकोश भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥१२०॥ [अभिज्ञानशाकुन्तल ४.१८] १८४. सत्यं हारि नितम्बिनीस्तनतटं सत्यं मनोज्ञाः श्रियो विद्यातोपचितिर्भवत्यवितथं स्वर्गाय सत्यं तपः । किन्त्वेतेन विनाशिनाऽत्र वपुषा कष्टं न जानीमहे धास्यामः कियतामधो निपततां धारातिलानां मुखम् ॥१२१॥ अङ्गनानामिवाङ्गानि गोप्यन्ते स्वगुणा यदा । स्पृहणीयास्तदा ते स्युस्तदा तेऽत्यन्तमुज्ज्वलाः ॥१२२॥ १८६. द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधेरभिमतमभिमुखीभूतः ॥१२३॥ [रत्नावली १.६] १८७. प्राप्याऽसुखानि च सुखानि च दैवयोगात् मा रोषमाचर विधेह्यधिकं च तोषम् । . एतस्य कालपरिपाकवशेन पूर्वं किं न श्रुता भगवतोऽपि दशावताराः ॥१२४॥ १८८. काले कलौ राजनि चार्थलुब्धे धनेन किं रक्षथ जीवितानि । नन्वेष लाभो यदि शौने( नि? )केन मुच्येत मेषो हृतसर्वलोमा ॥१२५॥ १८९. संसारेऽस्मिन् ध्रुवमसुलभं मानुषं जन्म लब्ध्वा युष्मानेको भजति सुकृती कश्चिदन्यं च देवम् । आरूढोऽपि स्मरहरगिरि रोहणं भाग्ययोगाद् एको रत्नं कलयति पुनः काचमन्यश्च फल्गुम् ॥१२६॥ १९०. नग्नस्तिष्ठति धूलिधूसरतनुर्गोपृष्ठमारोहति व्यालैः क्रीडति नृत्यति क्षरदसृक् चर्मोद्वहन् दन्तिनः । प्रेतावासरुचिः कपालभृतभुग नाराऽस्थिभूषोल्बणः प्रायो नोपदिशन्ति यस्य गुरवस्तस्येदमाचेष्टितम् ॥१२७॥ हंहो माधव ! किं वयस्य ! सुमते ! किञ्चिद्रहस्यं ब्रुवे ओमित्यन्तमृजुः प्रकीर्णविभवो दक्षात्मजावल्लभः । तद्गत्वा विपिने प्रतार्य कुसुमैरर्कस्य बिल्वस्य वा गृह्णीमः सुरमौलिलालितपदां त्रैलोक्यराज्यश्रियम् ॥१२८॥ १९१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy