SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सुभाषितसंग्रहसमुच्चय १९२. येनैवास्य निवेदितं किमपि वा येनाथवा संस्तुतो यो वा कोऽपि पुरोऽस्य गायति हसत्यग्रे स्थितः कोऽपि वा । तेभ्यो येन समर्पितास्त्रिभुवनोदग्रा: समस्ताः श्रियो रूक्षो नग्नवपुः स एष न कथं भिक्षां भवो भ्राम्यति ॥१२९॥ १९३. कोऽयं नाथ ! स्फुरति भवतो भावनातत्पराणां वारंवारं वपुषि पुलकोद्भेदकारी प्रभावः । यत्कीर्णानि त्वयि पशुपते ! देहिनां कर्मपाश ग्रन्थिच्छेदे कुवलयदलान्येव खड्गीभवन्ति ॥१३०॥ १९४. भास्वद्भरिभुजङ्गभीषणवती ज्योतिर्वहन्ती पुरं मुद्रामण्डलशालिनी च यदियं संलक्ष्यते ते तनुः । एतस्मात्परमार्थसंभृतनिधेस्तात ! त्वमेको मत श्चित्रं किन्तु यदव्ययेन भवता सर्वः कृतार्थीकृतः ॥१३१॥ १९५. यैर्भूतेश ! भवन्मयं त्रिभुवनं भव्यात्मभिर्भावितं तन्माहात्म्यविशेषवर्णनविधौ ब्रह्माऽप्यवागीश्वरः । ये चानेककुतर्ककर्कशधियस्त्वामाक्षिपन्तीश्वरं श्रेयस्तेऽपि विभो ! भजन्ति किमपि त्वन्नामसंकीर्तनात् ॥१३२॥ १९६. महिमानं यदुत्कीर्त्य तव संहियते वचः । श्रमेण तदशक्त्या वा गुणानां नन्वियत्तया ॥१३३॥ १९७. ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धाम्बरे तुल्या शर्करया शरद्यभिनवे शुण्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण तां संयुतां राजन् ! प्राप्य हरितकीमिव गदा नश्यन्तु ते शत्रवः ॥१३४॥ मुम्मणरचितसुभाषितावली समाप्ता ॥ -x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy