SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७८ सुभाषितसंग्रहसमुच्चय ११८. कान्ताऽस्मदैवगत्या कथमपि गलितान्यन्तरालोत्थपक्षा ण्युड्डीयोड्डीय भूयस्तरुशिखरशिखामेव तान्याश्रयन्ते । इत्थं त्वद्वैरिनारी गिरिषु नरपते ! जम्बुलुम्बीकदम्ब भ्रान्त्या भर्तुर्बुभुक्षोः कथयति पुरतश्चेष्टितं षट्पदानाम् ॥५५॥ ११९. बहिः सर्वाकारप्रकृतिरमणीयं व्यवहरन् पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति । जनं विद्वानेकः सकलमतिसन्धाय कपटैस्तटस्थ: स्वानर्थान् घटयति च मौनं च कुरुते ॥५६॥ [मालतीमाधव १.१४] १२०. गुणेषु यत्नसाध्येषु यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः ॥५७॥ १२१. आक्षीरधारैकभुजामागभैंकनिवासिनाम् । नमोऽर्थेभ्यः पृथक्त्वं ये भ्रातॄणामपि कुर्वते ॥५८॥ १२२. अद्यापि देहे मम मांसमस्ति शिरामुखैः स्यन्दत एव रक्तम् । तृप्तिं न पश्यामि तवैव तावत्त्वं भक्षणात् किं विरतो गरुत्मन्! ॥५९॥ १२३. क्षुद्राः ! संत्रासमेतं विजहत हरयो भिन्नशक्रेभकुम्भाः युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे ! तिष्ठ पात्रं त्वमपि न हि रुषां नन्वहं मेघनादः किञ्चित्संरम्भलीलानियमितजलधि राममन्वेषयामि ॥६०॥ [हनुमन्नाटकम् १२.२] बीभत्सः १२४. अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल व्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नायुसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥६१॥ [मालतीमाधव ५.१८] १२५. अन्त्रप्रोतबृहत्कपालनलकक्रूरवगत्कङ्कण प्रायः प्रेखितभूरिभूषणरवैराघोषयन्त्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राधारघोरोल्लसद् व्यालोलस्तनबन्धबन्धुरवपुर्बद्धोद्धतं धावति ॥६२॥ [महावीरचरित १.३५] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy