________________
७७
सुभाषितरत्नकोश
अथ हंसः ११०. नद्यो नीररता दुरापपयसः कूपाः पयोराशयः
क्षारा दुष्टबकोटसंकटतटोद्देशास्तडागादयः । भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति
त्वां भो मानस ! संस्मरन् पुनरसौ हंसः समभ्यागतः ॥४७॥ १११. हे हंस ! मीलितपयः सलिलं विवेक्तुं
सक्तस्य सम्प्रति मतिः क्व नु तेऽद्य जाता। कासारवारिणि कलां पतितां यदिन्दो
रादातुमिच्छसि बिशाङ्कुरशङ्कया त्वम् ॥४८॥ ११२. यत्सौधशृङ्गारसरोजरागरत्नप्रभाविच्छुरितः शशाङ्कः ।
जगाम रोषादिव लोहितत्वं पौराङ्गनावकत्रकृतापमानः ॥४९॥ ११३. शीतांशुबिम्बबहलद्युतितस्करेण कान्तामुखेन सुखितं मम चित्तरत्नम् ।
पुष्पेषुराजवचनेन मतं द्विजानां नूनं करोम्यधरखण्डनदण्डमस्य ॥५०॥ ११४. आत्ते सीमन्तचिह्ने मरकतिनि हृते हेमताडङ्कपत्रे
लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन् ! गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥५१॥ ११५. नातीतः पान्थः ! पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे !
मार्गं पृच्छामि पृच्छ स्थितमिदमिह ते विस्मितं वीक्ष्यतेऽत्र । अध्वानं ब्रूह्यये ! नाऽध्वनि भवति वचश्चित्रमित्थं वचोभि
हस्यन्ते दावमूढाः पथि पथिकविटैस्त्वद्विषो नाथ ! नार्यः ॥५२॥ ११६. पन्थाः ! संहर दीर्घतां त्यज निजं तेजः कठोरं रवे:(वे!)
बन्धो ! विन्ध्यगिरे ! प्रसीद सदयं सद्यः समीपे भव । इत्थं दूरपलायनक्लमवतीर्दृष्ट्वा निजप्रेयसी:
श्रीकीर्तीश ! तव द्विषः प्रतिपदं जल्पन्ति मूर्च्छन्ति च ॥५३॥ ११७. अभ्युद्धृता वसुमती दलितं रिपूणां
चक्रं तथा कवलिता रिपुराजलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत् पुरुषः पुराणः ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org