SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ૭૬ १०३. गतवति चिरं यूथाधीशे जरत्करिणीगणे नवमदपयोबिन्दून् दृष्ट्वा सुतस्य कपोलयोः । प्रतिगजकुलाक्रान्ते तस्मिन् चिरन्तनकानने कतिपयदिनैः क्रीडां कर्तुं कृतो हृदि संभ्रमः ॥ ४० ॥ १०४. शबरशिबिरीभूते कालक्रमेण तपोवने वनचरभयात् त्रस्तो गन्तुं वनान्तरमीहते । चिरपरिचयात् तच्च त्यक्तुं सहो न भवत्यहो ! मुनिवरमृगश्चिन्तामग्नो न याति न तिष्ठति ॥४१॥ १०५. आदाय मांसमखिलं स्तनवर्जमङ्गे मां मुञ्च वागुरिक! यामि कुरु प्रसादम् । सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणकराः शिशवो मदीयाः ॥४२॥ १०६. न शम्भोरम्भोजैश्चरणयुगपूजास्ति रचिता मृणालैर्न म्लानं स्मरविधुरबालावलयितैः । न पत्रैर्निस्तीर्णो दयितविरहायल्लकविधिः परं मातङ्गैस्ते वननलिनि ! लक्ष्मीर्विलुलिता ॥४३॥ १०७. मालिन्यं भुवनातिशायि रुचिरं नो किञ्चिदप्याकृतावन्यैः पोषणमात्मनो विसदृशैस्तत्रापि काकैः किल । भ्रातः ! कोकिल ! सर्वमेतदमृत श्रोतस्विनीसोदरे माधुर्ये भवतो गिरां समधिके निर्नाम निर्मज्जति ॥४४॥ १०८. पक्षी सूक्ष्मतनुस्त्वमम्बरशिरः सञ्चारदूरस्थिति स्तद्गन्तुं न हि पार्यते न च परिक्षीणः स्वरः श्रूयते । तस्मान्मेघ ! निदाघदाहविधुरस्त्यक्तान्यनीराशयः स्मर्तव्योऽयमशेषविश्वभरणव्यग्र ! त्वया चातकः ॥ ४५ ॥ १०९. हा धिक् परव्यसनदुर्ललिताशयेन सुभाषितसंग्रहसमुच्चय केनापि रे सरल ! चातक ! वञ्चितोऽसि । येनाऽम्बुवाहमपि याचसि याचितस्य यस्यास्य याचितुरिवाऽऽस्यमलीमसत्वम् ॥४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy