SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७५ सुभाषितरत्नकोश ९४. दोषाकरत्वाद्यदि वा जडत्वात् यद्वाल एवाऽप्रगुणोऽयमासीत् ।। अस्माभिरस्मात्प्रतिबोधितोऽयं भविष्यतीन्दोः प्रचुरः कलङ्कः ॥३१॥ अथ मेघः यत्तद्गर्जितमूर्जितं यदपि च प्रोद्दामसौदामिनीदामाडम्बरमम्बरे विरचितं यद् दूरमत्युन्नतम् । तेषां पर्यवसानमीदृशमहो ! जातं यदम्भोधर ! द्वित्राः कृत्रिमरोदनाश्रुतनवः क्षिप्ताः पयोबिन्दवः ॥३२॥ ९६. अमुं कालक्षेपं त्यज जलद ! गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् । अये ! पश्याऽवस्थामकरुणसमीरव्यतिकर ज्वलद्दावज्वालावलिजटिलमूर्तेविटपिनः ॥३३॥ ९७. हे मेघ ! मानसहितस्य तृषातुरस्य जन्मान्तरेऽपि भवदेकपरायणस्य । अम्भःकणान् कतिचिदप्यधुना विमुञ्च नो चेद् भविष्यति जलाञ्जलिरस्य देयः ॥३४॥ ९८. यानि त्वत्प्रार्थनाखिन्नैः पीतान्यणि चातकैः । सन्ति तान्यपि नेदानी क्षण्यान्मेघ ! किमुच्यते ? ॥३५॥ प्रसीद प्रारम्भाद्विरम विनयेथाः क्रुधमिमां हरे ! जीमूतानां ध्वनिरयमुदीर्णो न करिणाम् । असंज्ञाः खल्वेते जलशिखिमरुभूमनिचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमिदम् ॥३६॥ यस्याऽवन्ध्यरुषः प्रतापवसते देन धैर्यद्रुहा शुष्यन्ते समह(द)प्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना । कर्षत्येष करेण केसरसटाभारं जरत्कुञ्जरः ॥३७॥ १०१. मृगेभ्यो रक्ष्यते क्षेत्रं तृणपूली मनुष्यकैः । मदकेशरिणाऽऽक्रान्तं न गजैर्न च वाजिभिः ॥३८॥ १०२. शौर्यं हि कोल-कुक्कुर-कृकवाकुकुलेषु दृश्यते बहुषु । दानं पुनरिह महतां प्रवर्तते दन्तिनामेव ॥३९॥ १००. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy