SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ૫૮ संप्रत्येव विवेकमन्त्रपयसा ध्वस्ते यथावस्थितं तत्कायेषु वसा-ऽसृगस्थि-पिशितस्तोमादि संलक्ष्यते ॥३१॥ ३२. नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वग्मांसास्थिमयं वपुर्मृगदृशामन्धो जनः सेवते ॥३२॥ सुभाषितसंग्रहसमुच्चय ३३. नाऽऽलोकयन्ति पुरतः परलोकमार्गं लीलातपत्रपटलावृतदृष्टय ये । तेषामगाधनरकात्मनि मोहितानां घोरान्धकूपकुहरे निकटो निपातः ॥ ३३ ॥ ३४. येनेह जर्जरितकुञ्जरकुम्भगर्भमुक्ताफलप्रकरकण्टकिता धरित्री । संरक्षिता समिति सोऽपि हतान्तकेऽस्मिन् कुण्ठीभवत्यहह ! भूमिभृतां कृपाणः ॥३४॥ ३५. रोगेऽप्यङ्गविभूषणद्युतिरियं शोकेऽपि लोकस्थितिदरिद्र्येपि गृहं वयःपरिणतावप्यङ्गनासङ्गमः । येनाऽन्योन्यविरुद्धमेतदखिलं जानन् जनः कार्यते सोऽयं सर्वजगज्जयी विजयते व्यामोहमलो महान् ॥३५॥ ३६. लङ्काभर्तुर्निधनरुचिना चापहस्तेन येन क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानाम् । सोऽयं स्फूर्जद्दिवसरजनीघोरवक्त्रेण रामस्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तंचरेण ॥३६॥ ३७. आत्मानं किल मन्यते हतमतिः क्रीडाणत्कङ्कणश्रेणीसूचितसंभ्रमं स्मरवशः कान्ताभिरालिङ्गितम् । नैवं वेत्ति यदुल्लसद्भुजलतापाशेन बद्ध्वा बलादेताभिर्गुरु मोहकूपकुहरे क्षिप्तोऽस्मि जानन्नपि ॥३७॥ ३८. यैः कान्ताजनविप्रयोगजनितं सन्तापमाविर्भवत्कर्पूराक्षमृणालचन्दनरसैरुच्छेदयंस्तिष्ठसि । तैरेषाऽपि शमिष्यते तव पुरस्तापप्रचण्डानिलज्वाला पञ्जरसम्भवो यमपुरे तेनाऽस्तचिन्तो भवान् ॥३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy