SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सूक्तावली करिग्रामश्यामं मलिनयितुमेतत्रिभुवनं भुवो रन्ध्रादन्धा(न्धं)तमसमहह प्रादुरभवत् ॥३१॥ १३६. येन त्वया भगवतः शतपत्र नाभे राजन्मतोऽपि विदधे हृदये निवासः । तत्कोऽस्तु कौस्तुभमणीन्द्र ! भवद्गणौघ सब्रह्मचारिचरितः परितः पृथिव्याम् ॥३२॥ १३७. अमी तावद्दावज्वे(ज्व)लनवलनालीढवपुषः श्रयन्ते न प्रीतिप्रसरमसकृत्केऽपि तरवः । अयं यावत् कन्दक्लममथनमत्यन्तविनतो न तोयप्राग्भारं किरति जलदः स्फीतनिनदः ॥३३॥ १३८. अतीतास्ते लीलाविकचपिकचक्रध्वनिभर प्रचारप्रोन्मीलन्मनसिजरसा: केऽपि दिवसाः । इदानीं भूपीठं पथिकपदमांस्पाकमहसः समारम्भादस्मादहह दहति ग्रीष्मसमयः ॥३४॥ अथ सिंहः १३९. यस्यां स केसरियुवा पदमाबबन्ध गन्धद्विपेन्द्ररुधिरारुणिताणायाम् । तामद्य कन्दरकुटी धृतधूम्ररोमा गोमायुरेष वपुषा कलुषीकरोति ॥३५॥ १४०. तावत्कैरवकोशकुट्टिमकुटीकोणेषु कोलाहल व्यालोलामलिमण्डली विदधते शीतयुतेरंशवः । ते तन्वन्ति नयादाथा]न्धतमसग्रासोन्मुखां शेमुखी देवस्य धुमणे: करा: कमलिनीकालुष्यकूलङ्कषाः ॥३६॥ १४१. यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे । रे रे काक ! वराक ! साकमधुना पुस्कोकिलेन ध्वनिस्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा ॥३७॥ ११. विष्णोः इति टिप्पणी । १२. सन्ति इति टि० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy