SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४६ सुभाषितसंग्रहसमुच्चय एतस्याः क्षणमप्यवाप्तकुसुमक्रोडासनाः सन्निधिं यन्नोज्झन्ति झषध्वजप्रणिधयः पुष्पन्धयश्रेणयः ॥२५॥ अथ सरः १३०. एतस्मिन् मरुमण्डले परिचलत्कल्लोलकोलाहले क्रीडत्कुङ्कुमपङ्कमङ्कविकसन्निःशङ्कनीरद्विपम् । केनेदं विकसत्कुशेशयकुटीकोणक्यत्षट्पद स्त्रैणप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥२६॥ १३१. यस्मिन् महासरसि हंसविलासिनीनां राजीवराजिरजसा रचितोऽङ्गरागः । तद्वीक्ष्य रूक्षमधुना मम सज्जयन्ति सम्पूरणार्थमिव वारिविलोचनानि ॥२७॥ अथ मुक्तकम् १३२. अभ्युन्नतेऽपि जलदे जगदेकसेक साधारणप्रणयहारिणि हा ! यदेते । उल्लासलास्यललितं तरवो न यान्ति हे दावपावक ! स तावक एष दोषः ॥२८॥ १३३. मुग्धं विबोधयतु लोकमशोक एष शाखाभिरुल्लसितपल्लवपाटलाभिः । सा काऽपि पञ्चमचमत्कृतिरभ्युदेति पुंस्कोकिलैकनिलये पुनरत्र चूते ॥२९॥ १३४. अस्तं गतः स भगवानरविन्दवृन्द जीवातुरातुररथाङ्गविबोधबन्धुः । दोषाकरः प्रसरतु प्रभवन्तु ताराः कारानिकेतमिव यातु जगत्तमिस्त्रम् ॥३०॥ १३५. अधस्तादस्ताद्रेः कटकपटलीकुट्टिमतटी० विटङ्क निःशङ्ख विशति बिस(सि)नीनां परिशये । ९. रविः इति टिप्पणी । पद्मवनजीविः इति टिप्पणी । १०. अस्ताचलशिखरगृहदेशे(शा)न्तरिते रवी इत्यर्थः इति टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy