________________
सूक्तावली
अश्रान्तदर्शितमहत्त्वगुणाश्रयेऽपि
शून्ये जडात्मनि च नाम कुतो विवेकः ॥१९॥ अथ विहङ्गाः
१२४. गतः कालो यस्य स्फुरदसमसौरभ्यरभसप्रसक्तप्रोन्मत्तभ्रमरमुखरे चूतशिखरे । इदानीं दुर्दैवादहह स पिकः पिप्पलतरूच्छदच्छेदच्छेकां कवलकलनां कन्दलयति ॥२०॥
१२५. पयः पङ्कीभूतं तटमुपचितं शैवलमलैः तिरोभूतास्तेऽपि वचन तिमयः संभृतभियः । गतं यद्यप्येतां विकृतिममितां पल्वलमिदं न सेवाहेवाकस्तदपि बक ! ते मुञ्चति मनः ॥ २१ ॥ अथ सर्पः
१२६. एतस्य भीषणभुजङ्गशिशोरकाण्डलीलागलस्थलगलद्गरलस्य गाढम् । गर्वायसे किमिदमाशु बिलं विलङ्घ्य हे मूर्ख ! मूषक ! मुमूर्षुरसि त्वमेव ॥२२॥ अथ द्रुमाः
१२७. न यत्र व्यातेनुः सुरभिसमयारम्भरभसा
च्चिरं दोलालीलामपि किमपि पङ्केरुहदृशः । स वज्रेण ज्वालावलिवलयिना बालतिलकः कथाशेषं नीतः कुसुमशरसौराज्यसचिवः ॥२३॥ १२८. आलिङ्गितोऽसि रभसेन वसन्तलक्ष्म्या संभूषितोऽसि सहकारनवप्रसूनैः । द्वित्रैः फलैरपि किमेनमुपान्तभाजमद्यापि बालपिकमिद्ध ! मुदं न धत्से ॥२४॥
१२९. एतस्मिन्विपिने परःशतलतालोकप्रियंभावुके बालेऽयं नवमालिकैव किमपि प्रावीण्यमालम्बते ।
८. 'विस्तारयति' इति टिप्पणी ।
Jain Education International
For Private & Personal Use Only
૪૫
www.jainelibrary.org