SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४४ सुभाषितसंग्रहसमुच्चय ११७. इह क्रीडोद्याने बकुलमुकुलामोदमुदित द्विरेफस्त्रीगीतिग्रथितपथिकप्रीतिरुचिरे । अये ! नीतः स्फार्ति फलपरिमलच्छायविकल: समन्तात्केनाऽयं खदिरविटपी कण्टकमयः ॥१३॥ ११८. अमुष्मिन्नुद्याने विहगखल एष प्रतिपदं विलोलः काकोलः क्वगति पटु यावत्कटुतरम् । सखे तावत्कीर ! दृढय हदि वाचंयमकलां न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥१४॥ ११९. वार( रां)नाथ ! वराटिकामपि समादातुं जलेभ्यस्तव प्रायः कम्पकलाविलासमसकृच्चित्ते विधत्ते जनः । अन्तर्जातजलौघयन्त्रितमहायत्नानि रत्नानि ते लुब्धां लब्धुमहो मनोरथपथं यामः कथं तद् वयम् ॥१५॥ अथ शङ्खः १२०. नैर्मल्यमप्रतिममम्बुनिधेश्च जन्म तच्चक्रपाणिकरपङ्कजगोचरत्वम् । यस्येति ते चरितमुज्ज्वलमस्ति सत्त्वं हे शङ्ख ! किं खल इवाश्रितवक्रभावः ॥१६॥ १२१. अन्यैव सा वसुमती समुदेति यस्या स्तत्कुङ्कम किमपि कान्तिमयं समन्तात् । अस्याः पुनः सरभसं विकसत्कुशुम्भ सम्भूतिरेव सुभगङ्करणी भुवोऽभूत् ॥१७॥ १२२. अहो तुल्यप्रेम्णा ग्रहनिवहमेनं वहसि यन् महःस्तोमाभावादधिकतरमात्मम्भरिरुचम् । तथापि त्वं व्योम ! प्रतिदिवसमस्मात् प्रथयसि प्रकाशप्राग्वीचि[प्र]भवभरमम्भोरुहविभोः ॥१८॥ १२३. हंसान्निरस्य वहति स्म बकावकाश माकाशमाशु जलदाकुलितं किमेतत् । ७. 'रवेः-' इति टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy