SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सूक्तावली ४७ १११. मन्दाकिनीकनककैरविणि ! त्वदीयं किं तत्तपः कथय येन पिनाकपाणेः । आसाद्य मौलिमधिगच्छसि यामिनीश सम्पर्कजानि सततं सुखसौहदानि ॥७॥ ११२. येषां बभार मदमन्वहमम्बुजाना मुत्कर्षसङ्गमकरं मकरन्दवारि । शैवालसन्ततिषु सम्प्रति सङ्गतासु संकुच्य तेऽपि समयं गमयन्ति हंसाः ॥८॥ अथ गजः ११३. अये वन्यस्तम्बेरम ! कमलकिंजल्कजनित प्रभारम्भः कुम्भस्तव सरभसं भाति न यथा । यथा हेलोन्मीलत्परिणमनपाण्डित्यनिबिड प्रहारव्याघूर्णद्धरणिधरधूलीधवलितः ॥९॥ ११४. मदं यस्याऽऽघ्राय त्वरितमितरे काननभुवि ध्वनि वाऽध्वानं च क्षितिधरनिभास्तत्यजुरिभाः । अये दैवान्मन्दीभवदसमसारस्य पुरतो वपुः क्रीडालोलं वहति हरिणस्तस्य करिणः ॥१०॥ अथ चूतः ११५. त्वयि मद[न]मनो मनस्विनीनां नवमधुना मधुनाऽधुना धुनाने । न भवति यदसौ रसालशाखी भृशमुभयोरपि तत्कथं वृथा स्यात् ॥११॥ ११६. समारम्भि स्मेरा पिकसहचरीभिः सरभसं वसन्तादौ यस्मिन् मधुरवचना गीतिरचना । सदैवादामूलत्रुटितविटपैः सम्प्रति दवस्फुरत्कीला लीलामहह सहकारः कलयति ॥१२॥ ४. 'तिर्यग्दत्तप्रहारत्वं' इति टिप्पणी । ६. 'आम्र' इति टिप्पणी । ५. नवमकरन्देन, वसन्तेन, कम्पयितरि इति टिप्पण्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy