SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ૪૨ सुभाषितसंग्रहसमुच्चय [ अथ मेघः] १०५. यथा धीरं धीरं रससि रससिक्तेन मरुता रुतासक्तं केकिव्रजमपि यथाऽऽश प्रथयसि । तथा शङ्के धाराधर ! धरणिमुद्धर्तुमभवद् भवत्प्रारम्भोऽयं भृशमकृशलोकम्पृणगुणः ॥१॥ १०६. अमूका मण्डूका पुलकबहुलं चातककुलं बकाः कान्त्युद्रेका मदभरकरः केकिनिकरः । इति प्रायेणैतन्मुदमगमदम्भोद ! भवतः समारम्भे दम्भेरित इव न हंसाः कथममी ॥२॥ १०७. अपि प्रारम्भेऽस्मिन्न किरसि जलं चेदविकलं समुद्यत्सम्पत्ती जलधर ! तदा मा स्म विकिरः । समन्तान्नि?षैः पथिकविकचेन्दीवरदशामरे ! वारंवारं जनयसि कथं निर्दय ! भयम् ॥३॥ अथ सिंहः १०८. इमे दन्तक्रीडाकृतविटपिपीडाः करटिनः कटक्रौडैस्तावद्दधति मदधारापरिमलम् । अयं यावद्वीरध्वनिजनितजाड्यज्वरभरः करत्क्रूराक्रान्ति कलयति न कण्ठीरवयुवा ॥४॥ १०९. अरेरे मातङ्ग ! ग्लपयसि कथं तानपि तरून् कराग्रव्यापारैः परिमलपरीपाकसुहृदः । यदीयच्छायाभिस्तव दवथराशप्रमथितः सदा माद्यत्कण्ठीरवरवजवव्यापृतिभवः ॥५॥ ११०. अम्भोधरैः कलुषितेषु जलाशयेषु निर्मूलितेषु च कुशेशयकाननेषु । हे मानस ! त्वदुपकण्ठमकुण्ठवीचिवाचालमाश्रयितुमिच्छति राजहंसः ॥६॥ १. 'सजलेन' इति टिप्पणी । २. 'कपटयुक्तस्य इव' इति टिप्पणी । ३. तापः इति टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy