SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सूक्तावली ९६. यदीयतीर्थं किल वर्तमानं तदा तदीयप्रतिमाप्रतिष्ठा । आद्या, ततोऽन्या वृषभादिकानां तीर्थाधिपानां गदिताऽखिलानाम् ॥९६॥ ९७. सप्तत्यधिकजिनेश्वरशतप्रतिष्ठा तु निगदिता मुनिभिः । सकल क्षेत्रजिनानां भक्तिविधानान्महासंज्ञा ॥ ९७॥ मुक्तिगतदेवतानां बिम्बाधिष्ठानसम्भवो न यतः । भवति न च तदुपकारस्तस्या बिम्बार्चनादिभ्यः ॥ ९८ ॥ ९९. जगति यशो हृदि धर्मः शर्मण्यात्मा निरञ्जने नियतम् । जिनबिम्बसुप्रतिष्ठाच्छलात्प्रतिष्ठापितो भव्यैः ॥९९॥ १००. ये तीर्थनाथागमपुस्तकानि न्यायार्जितार्थैरिह लेखयन्ति । ते तत्त्वतो मुक्तिपुरीनिवासस्वीकारपत्रं किल लेखयन्ति ॥ १०० ॥ १०१. ज्ञानादिनि:शेषगुणौघरत्न ९८. रत्नाकरे बिन्दुरिवाम्भसोऽन्तः । संघे नियुक्तो निजवित्तलेश: स्यादक्षयः क्षीणपरिक्षयेऽत्र ॥ १०१ ॥ १०२. रत्नेषु चिन्तामणिरत्र यद्वत् सारस्तरूणामपि कल्पवृक्षः । देवेषु सर्वेष्वपि वीतरागस्तद्वत्सुपात्रेषु सुसाधुसंघः ॥ १०२ ॥ १०३. यात्रामहोत्सवविधिश्च जिनेन्द्रचैत्ये कार्यो जिनप्रवचनोन्नतिहेतुभूतः । यस्मादिह प्रवचनोन्नतिरभ्यधायि सम्यक्त्वरत्नविमलीकरणाङ्गमुच्चैः ॥१०३॥ १०४. पञ्चकल्याणकादीनामङ्गीकृत्य दिनादि सा । अन्यद्वा शासनोन्नामहेतुभूतं विधीयते ॥ १०४॥ Jain Education International For Private & Personal Use Only ૪૧ www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy