SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सूक्तावली चिन्तामणिः कल्पमहाद्रुमो वा । महानिधिर्वाऽमृतकामधेनु स्तद्वज्जिनेन्द्रोदितधर्मदेष्टा ॥५१॥ ५२. भवेऽथवैकत्र करोति किञ्चित् कल्पद्रुमादिः फलमल्पफल्गु । गुरुजिनेन्द्रोदितमुक्तिमार्गो पदेशतः शाश्वतसौख्यदाता ॥५२॥ ५३. न तेषु दोषानुगतस्य विच्युति नृणां मनःसन्तमसस्य जायते । जिनेन्द्रभानोः किरणाः सुनिर्मला लसन्ति देशेषु न येषु सूरयः ॥५३॥ ५४. सूरिस्तीर्थं जङ्गमं मर्त्यलोके सूरिस्तत्त्वालोकने हस्तदीपः । सूरिर्मोक्षश्रीसमायोगदूतः सूरिः साक्षाद्धर्मबन्धुर्बुधानाम् ॥५४॥ यत्सम्पत्त्या न युक्ता जगति तनुभृतो यच्च नापद्विमुक्ता यन्नाधिव्याधिहीनाः सकलगुणगणालङ्कताङ्गाश्च यन्नो । यन्नो स्वर्गं लभन्ते गतसकलभयं यच्च नो मोक्षसौख्यं दुष्टः कल्याणमालादलनपटुरयं तत्र हेतुः प्रमादः ॥५५॥ ५६. वरं बुभुक्षातुरसिंहसङ्गतं वरं सुरुष्टोरगभोगघट्टनम् । वरं कृतान्ताननसंप्रवेशनं न तु प्रमादः शुभदः प्रयोजने ॥५६॥ ५७. कृशानुतः स्यादपि पङ्कजोदय स्तुषारतः स्यादपि शीतसंक्षयः ॥ विषाशनात् स्यादपि जीवितं नृणां न तु प्रमादेन कदापि सम्पदः ॥५७॥ ५८. निद्रा ह्यालस्यमूलं विततमतिसरित्स्रोतसः सेतुबन्धः कूलं विज्ञानसिन्धोः स्मृतितरुपरशुर्मोहमल्लाधिराज्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy