SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३४ ४४. ४५. ४६. अथ लभेत शुभैर्यदि कल्यतां स्वपरकार्यविधौ च समर्थताम् । ४७. गृहकुटुम्बधनाकुलमानसः शुभयोगमुपैति तथापि सः ॥ ४४ ॥ इह हि गृहिणां हन्ताऽज्ञानां महाज्वरदारुणो दहति विरहोऽभीष्टैः सार्द्धं मनः सकलेवरम् । भवति यदि चित्तैः संयोगः स मोहमहान्ध्यकृत् कथय कतरो धर्मस्य स्यात् क्षणः श्रवणं प्रति ॥ ४५ ॥ आराधयामि नृपमम्बुनिधिं तरामि देशान्तरेषु विचरामि कृषिं करोमि । नौमीश्वरं किमु सुरं विवरं विशामि पुंसामिति व्रजति चिन्तयतामिहायुः ||४६ ॥ अद्यैतत् श्वोऽपरेद्युः परुदनु च परार्यग्रतो वा करिष्ये कार्यं सिध्येन्नवेदं कति च मम निजा विद्विषो वा कियन्तः । इत्थं लक्ष्म्यापि योगे न निशि न दिवसे चेह पुंसां कथञ्चित् सौख्यं संख्याव्यतीतैर्विधुरितमनसामाधिकल्लोलजालैः ॥४७॥ ४८. तार्णं जीर्णं कुटीरं वृषवकुलबिलैः संकुलं धान्यशूनं काणा काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना । दण्डी खण्डा च हण्डी श्रुतिविकलखरी द्वारि कोकूयमाना तिष्ठत्येषाऽपि भूतिः प्रभवति भविनां हा महामोहहेतुः ॥ ४८ ॥ ४९. शुष्कं रूक्षं क्षुधार्त्तः कदशनमशनैर्वल्गमानोऽन्यगेहे सुभाषितसंग्रहसमुच्चय कृत्वा कर्माऽतिकष्टं हतभृतकनरो यावदास्तेऽथ तावत् । वाचाटा दुष्टधृष्टा रटति कटुतराक्रोशनैः स्वामिभार्या दुःखं भुङ्क्ष्वेति मुखै (मूर्खे?) भृकुटिकुटिलतास्येति पापस्य पुष्पम् ॥४९॥ ५०. इति जगति पुमांसः सुस्थिता दुःस्थिता वा द्रविणकणकुटुम्बव्याप्तिभिर्व्यग्रचित्ताः । क्षणमिह न लभन्ते हन्त धर्मोपदेशाऽमृतरसजलधीनां सेवनायै गुरूणाम् ॥५०॥ ५१. सुखेन लभ्ये न यथेह लोके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy