________________
૧૨૭
सूक्तावली (लघु) ५७. जीर्यन्ति जीर्यत: केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्राणि जीर्यन्ति तृष्णैका तरुणायते ॥५७॥ ५८. दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः
कायस्याऽशुचिता विरागपदवी संवेगहेतुर्जरा । सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये
सम्पद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? ॥५८॥ ५९. प्राणा मृत्युभयेन यौवनमिदं वृद्धत्वदोषाहतं
इष्टानिष्टवियोगसङ्गममहादुःखैः सुखं पीडितम् । एवं नाऽत्र सुखं तथाऽपि विरसे संसारनिम्बद्रुमे
जीवो धर्मरसानभिज्ञहृदयस्तस्मिन् पुनर्धावति ॥५९॥ ६०. रहितं महता शोचति रहयति महिमा न जातु कृतमनसः ।
शोचतु जगदात्मानं यत्रैव रविर्दिनं तत्र ॥६०॥ यथा चतुर्भिः कनकं परीक्ष्यते निर्घर्षण-च्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो-दयागुणैः ॥६१॥ य एते शृङ्गाग्रस्थितहरितवृक्षाः शिखरिणः श्रवन्त्यो याश्चैता: प्रचुरसलिलव्याप्तवसुधाः । यदन्यद्वा किञ्चिच्चिरमचिरमप्यस्ति भुवने
दिनैः कैश्चिद् यातैस्तदिह खलु सर्वं न भविता ॥२॥ ६३. शुश्रूषमृ(स्व?)सुधर्ममाप्तगदितं मध्यस्थबुद्ध्या त्वमुं
मीमांसस्व गुरून्नमस्कुरु कुरुष्वाऽतुच्छमच्छं मनः । सद्दानं स तु वाञ्छितं ननु सतां तत्त्वं मनुष्व स्फुटं
दाक्ष(क्षि)ण्यं भज सज्जनान् सज यज श्रेयस्यघौघं त्यज ॥६३॥ ६४. फलान्वितोधर्मयशोऽर्थनाशन:(?) भवेदपार्थः स्वशरीरतापनः ।
न चेह नाऽमुत्र हिताय यः सतां मनांसि कोपः स समाश्रयेत्कथम् ॥६४॥ मुच्यते बन्धनाद् वृन्तं वृन्तात्पुष्पं प्रमुच्यते ।
क्लिश्यमानोऽपि दुष्पुत्रैः पिता स्नेहं न मुञ्चति ॥६५॥ ६६. अने(अन्ये)भ्यः स्वेच्छया दद्यात् प्राणान् प्राणी जयं पुनः ।
नाऽपि पुत्राय शिष्याय गुरवे प्रतिवादिने ॥६६॥
६२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org