________________
४३.
सुभाषितसंग्रहसमुच्चय साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणां च कारणं तेन सर्वदा ॥३८॥ त्यागश्च तदनिष्टानां तदिष्टेषु प्रवर्तनम् ।
औचित्येन त्विदं ज्ञेयमाहुर्धर्माद्यपीडया ॥३९॥ तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । तद्विम्बन्यास-संस्कार ऊर्ध्वदेहक्रिया परा ॥४०॥ समुचितधर्मसमाहितमनुचितपरिहारपूतमुचितज्ञम् । सविनयमविप्रतारकमिति धर्मार्थी गुरुं वदति । विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मं न विचक्षणोऽपि । निरीक्षते कुत्र पदार्थसार्थं विना प्रकाशं शुभलोचनोऽपि ॥४२॥ .... ...........ति विषयवारितगतिः । बके चान्द्रः सर्वो गुणसमुदयः किञ्चिदधिको गुणा: स्थाने मान्या नरवर ! न हि स्थानरहिताः ॥५०॥ ये काकिणीमपि महापणहिण्डमानरण्डाकरण्डशरणां न गुणा लभन्ते । ते बन्धकोविदकुविन्त(न्द)करारविन्दमैत्रीमवाप्य नृपतीनपि लोभयन्ति ॥५१॥ यत्पयोधरभारेषु मौक्तिकैर्निहितं पदम् । तत्प्रच्छादितरन्ध्राणां [गुणाना]मेव चेष्टितम् ॥५२॥ गुणेष्वादर: कार्यो न वित्तेषु कदाचन । सुलभं गुणिनां द्रव्यं दुर्लभा धनिनां गुणाः ॥५३॥ गुणिनि गुणज्ञो रमते नाऽगुणशीलस्य गुणिनि परितोषः । अलिरेति वनात्कमलं न दर्दुरास्त्वेकवासेऽपि ॥५४॥ वद भो भट ! किं कुर्मः कर्मणां गतिरीदृशी । दुषिधातोरिवाऽस्माकं गुणो दोषाय जायते ॥५५॥ उत्पतति पतति तिष्ठति भूमौ परिलुठति खनति चाऽऽधारम् । कर्दमकूपे घटकः सगुणोऽपि न पूरयत्युदरम् ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org