SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १09 सूक्तसंग्रह १२४. अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् । अहो बत महत्कष्टं चक्षुष्मानपि याचते ! ॥१२४॥ १२५. किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥१२५॥ १२६. प्रधानता पदस्यैव पुरुषं प्रत्यनादरः । स्थापितः पूज्यते यक्षः पाषाणः पादघर्षणः ॥१२६॥ सुखशय्यासनं वस्त्रं ताम्बूलं स्नानधूपनम् । दन्तकाष्ठं सुगन्धं च ब्रह्मचर्यस्य दूषणम् ॥१२७॥ १२८. वातेन यदि च क्षीरं ममापि कुरु भद्रक !। गोपालं प्रार्थयेन्नारी अर्थी दोषं न पश्यति ॥१२८॥ १२९. घटसर्पप्रभावेन भर्ता मे गृहमागतः । तस्मात्सर्वेषु कालेषु संग्रही नावसीदति ॥१२९॥ १३०. हेतुयुक्तं च पथ्यं च सत्यं साधुजनप्रियम् । यो हि वक्तुं न जानाति स जिह्वां किं न रक्षति ? ॥१३०॥ १३१. मुखदोषेण बध्यन्ते शुक-सारिक-तित्तिराः । बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥१३१॥ १३२. पटु रटति पलितदूतो मस्तकमासाद्य सर्वलोकस्य । परिभवति जरामरणं कुरु धर्मं विरम पापेभ्यः ॥१३२॥ १३३. मुखं वलिभिराक्रान्तं पलितैरङ्कितं शिरः ।। गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥१३३॥ १३४. जाति_तु रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥१३४॥ यदि वहति त्रिदण्डं नाग्न्य-मौण्डयं जटां वा, यदि वसति गुहायां वृक्षमूले शिलायाम् । यदि पठति पुराणं वेदसिद्धान्ततत्त्वं यदि हृदयमशुद्धं सर्वमेतन्न किञ्चित् ॥१३५।। १३५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy