________________
१०८
१३६.
सुभाषितसंग्रहसमुच्चय
धन्यास्त एव तरलायितलोचनानां कन्दर्पदर्पघनपीनपयोधराणाम् । क्षामोदरभ्रमितनाभिवलित्रयाणां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम्
॥१३६॥
१३७. हे दारिद्र्य ! नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न मां पश्यन्ति केचन ॥ १३७॥
१३८. यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुति (त) वान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥१३८॥ धनवान् दुष्कुलीनोऽपि लोके सर्वत्र पूज्यते । शशिनस्तुल्यवंशोऽपि निर्धन: परिभूयते ॥ १३९॥ १४०. यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥ १४०॥ १४१. वयोवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥१४१॥ १४२. यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
१३९.
तस्य ज्ञानं च मोक्षश्च किं जटा - भस्म चीवरैः ॥१४२॥ १४३. यदि मोक्षमभीप्ससि मूढमते ! मठकेन करिष्यसि किं नु यते ! । युवतीजनसंकुलके मठके क्वतपः क्व जपः क्व समाधिविधिः ? ॥ १४३॥
१४४. विषया यस्या (स्य) नाच्छन्नाः क्रोधो नोपशमं गतः । संसारे नैव वैराग्यं प्रव्रज्या तस्य जीविका ॥१४४॥ १४५. भाग्यक्षयेण क्षीयन्ते नोपभोगेन सम्पदः ।
कूपोदकविधानेन किं न जानन्ति पण्डिताः ? ॥१४५॥ १४६. मज्जत्वम्भसि यातु मेरुशिखरे शत्रुं जयत्वावह (हवे ? ) व (वा) णिज्यं कृषिसेवनादि सकलाः विद्यां कलाः शिक्षतु । आकाशं सकलं प्रयातु खगवत् कृत्वा प्रयत्नं परं
न (ना) भाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥१४६॥ १४७. एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद् द्रव्यं यद्दत्त्वा निरी (ॠ) णी भवेत् ॥ १४७ ॥
१४८. विधानविहिते मार्गे किं करिष्यन्ति पण्डिताः ? | पण्डितानां च मूर्खाणां विधानमनुवर्तते ॥ १४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org