________________
११३.
११६.
૧૦૬
सुभाषितसंग्रहसमुच्चय ११०. दुर्जनः परिहर्तव्यो विद्ययालङ्कतोऽपि हि ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥११०॥ १११. दुर्जनेनोच्यमानानि वा(व)चांसि मधुराण्यपि ।
अकालकुसुमानीव सन्त्रासं जनयन्ति मे ॥१११॥ ११२. उपभोगकातराणामर्थसञ्चयपराणाम् ।
का(क)न्यारत्नमिव गृहे तिष्ठन्त्याः परस्यार्थे ॥११२॥ सुरूपोऽहमिति ज्ञात्वा ताण्डवं कुरुते शिखी ।
नो जानाति स मन्दात्मा कौपीनं दृश्यते जनैः ॥११३॥ ११४. एक एव खगो मानी सुखं जीवति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥११४॥ ११५. गर्ज वा वर्ष वा मेघ मुञ्च वा शिततोमरान् ।
गणयन्ति न शीतोष्णं वल्लभाभिमुखाः स्त्रियः ॥११५॥ उद्गम्योद्गम्य तेऽत्रैव दरिद्राणां मनोरथाः ।
पतन्ति हृदये व्यर्था विधवस्त्रीस्तना इव ॥११६॥ ११७. तावद्भद्राः पुरुषा यावत् स्थानेषु स्थापिता [नृ?]पैः ।
रङ्गोत्तीर्णनटा इव नो दृश्या भूमिकारहिताः ॥११७॥ यदि धनिनः सत्पुरुषा यदि च सुरूपाणि परकलत्राणि ।
अनुपचितसुकृतसंचय ! तव हृदय ! किमाकुलीभावः ? ॥११८॥ ११९. वचनं वचनं हि केवलं प्रतिपत्तिस्तु गुणैर्विभाव्यते ।
वचनैरुपचात()कोमलैः फलहीने(नै)र्बत किं प्रयोजनम् ? ॥११९॥ १२०. न काष्ठे विद्यते देवो न शिलायां न च कर्दमे ।
भावेषु विद्यते देवस्तस्माद्भावं प्रशंसयेत् ॥१२०॥ १२१. यथा धेनुसहस्त्रेभ्यो वत्सो विन्दति मातरम् ।।
तथा पूर्वं कृतं कर्म कर्तारमनुगच्छति ॥१२१॥ १२२. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥१२२॥ १२३. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति ॥१२३॥
११८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -