SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८८ २१. २२. २३. २४. २५. २६. २७. २८. २९. ३०. ३१. ३२. ३२. स्पृश्या ये न बताऽन्त्रिणाऽपि शिरसा तेषां स्पृशामि क्रमौ दृष्टं यन्मुखमप्यहो ! न हि मया पश्यामि तेषां पुतौ । याच्या न श्वपचैरपि क्वचन ये तानप्यहं प्रार्थये हा धातस्त्वयि वामतामुपगते तत्किं न यत्प्राप्यते ? ॥२१॥ अवलेपोऽङ्गगत्येव शुचेरप्यधिकारिणः । कराग्रं किं न लिप्येत शृणु श्रीषण्डघर्षिणः ॥२२॥ सुभाषितसंग्रहसमुच्चय ज्ञानदर्शनचारित्रपथ्यपाथेयसंभृताः । वपुः कुटीरवासे वा प्रवासे वा न दुःस्थिताः ॥२३॥ प्रायेण यदपथ्यं तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतौ य[था]नुकूलाः प्रिया विषयाः ॥ २५ ॥ अहो खलु (ल) भुजङ्गस्याऽपूर्वः कोऽपि वधक्रमः । अन्यस्य लगति श्रोण (त्रं) [प्रा ] णैरन्यो वियुज्यते ॥ २६ ॥ जनन्या अपि नाख्येयं यत्कार्यं तत्सुहृज्जने । स्वजने कथनीयं स्यात् कोऽन्ये (न्यो ?) विस्रम्भभाजनम् ॥२७॥ विषयी विषयासक्तं सधनः सधनं गृही गृहिणमेव । सारम्भः सारम्भं न तुल्यदोषस्तु तारयति ॥ २८ ॥ विषयी विषयविमुक्तं सधनो निधनं गृही गृहविमुक्तम् । सारम्भोऽना[म्भं] संश्रित्य भवार्णवं तरति ॥ २९ ॥ धर्मं चरतः साधोर्लोके निश्रापदानि चत्वारि । राजा गृहपतिरपरे: (रे) षट्काया निजशरीरं च ॥३०॥ जिनपूजा गुरौ भक्तिस्तत्त्वे श्रद्धानमुत्तमम् । साधर्मिकानुरागश्च सारमेतज्जिनागमे ॥३१॥ अनुक्ता अपि ते स्वयं गुणा यान्ति प्रकाशताम् । च्छाद्यमानापि सौरभ्यमुद्वमत्येव मालती ॥३२॥ अन्नात्तंमि पिए विच्छित्तिणणे वयंसि का ईसा । खवणाण सिसिरकाले किं दुक्खं फल (लि ) हि दाहे य ॥ ३३ ॥ अन्यासक्ते प्रिये विच्छित्तिज्ञे वचसि का ईर्ष्या । क्षपणकानां शिशिरकाले किं दुःखं फलिष्यति दाहे च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy