________________
७८
ग्रन्थत्रयी श्रीतपागच्छीयसम्प्रदाये सर्वत्र देशेषु श्रीतपागच्छीयश्रीचतुर्विधश्रमणसङ्थेनाऽविच्छिन्नतयैव सर्वदा समनुपाल्यते । तथाहि -
यदा टिप्पनके द्वितीयादिपर्वतिथीनां क्षयः स्यात्तदा 'क्षये पूर्वा तिथि: कार्ये' ति वचनप्रामाण्यात् तत्पूर्वतिथीनां क्षयो गण्यते । टिप्पनके द्वितीयादिपर्वतिथिवृद्धौ च 'वृद्धौ कार्या तथोत्तरे' ति वचनप्रामाण्यात् प्रथमा पर्वतिथि: पूर्वतिथित्वेन गण्यते । यथाहि-टिप्पनके द्वितीयायाः क्षये प्रतिपदः क्षयो गण्यते, पञ्चम्याः क्षये चतुर्थ्याः क्षयो गणनीयः, अष्टम्याः क्षये सप्तम्याः क्षयो गणनीयः, एकादश्याः क्षये दशम्याः क्षयो गणनीयः, चतुर्दश्याः क्षये त्रयोदश्याः क्षयो गणनीयः । पूर्णिमामावास्ययोश्च क्षये चतुर्दश्याः क्षयस्य गणनीयत्वे प्राप्ते तस्या अपि पर्वतिथित्वेन तत्र त्रयोदश्या एव क्षयो गणनीयः ।
एवं तिथिवृद्धावपि । यथा हि-टिप्पनके द्वितीयावृद्धौ, प्रथमा द्वितीया प्रतिपदेव गणनीया, पञ्चमीवृद्धौ प्रथमा पञ्चमी चतुर्युव गणनीया, अष्टमीवृद्धौ प्रथमाऽष्टमी सप्तम्येव गणनीया, एकादशीवृद्धौ प्रथमैकादशी दशम्येव गणनीया, चतुर्दशीवृद्धौ प्रथमा चतुर्दशी त्रयोदश्येव गणनीया । पूर्णिमामावास्ययोश्च वृद्धौ प्रथमा पूर्णिमा प्रथमाऽमावास्या च चतुर्दशीत्वेन गणनीया, तत्पूर्वा चतुर्दशी च त्रयोदशीत्वेन गणनीया ।।
अत्र सर्वत्राऽपि तिथावौदयिकत्वमपि बोध्यम् । तिथावौदयिकत्वस्यैव तत्तत्तिथित्वेन प्रामाण्यप्रयोजकत्वात् । यथा-पूर्णिमाऽमावास्या च चतुर्दशीत्वेन गणनीयेत्यादावाराधनायामौदयिकचतुर्दशीत्वेन गणनीयेति भावः । एवं पञ्चाङ्गे 'द्वितीयायाः क्षये प्रतिपदः क्षयो गणनीय' इत्यादौ तस्मिन् दिने औदयिकी द्वितीयैव गणनीयेति भावः । इत्यादि स्वयमेवाभ्यूह्यम् ।
'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे' ति श्रीउमास्वातिवाचकवचनस्यैवात्र प्रमाणत्वात् नैवास्याः परम्पराया निष्प्रमाणता । इत्थमेव चाद्यावधि शिष्टपुरुषपरम्परापरिगृहीत्वेनास्याः परम्पराया निर्मूलत्वाऽऽशङ्काऽपि परास्ता । उपपादयिष्यते चोपरिष्यत् 'क्षये पूर्वे'ति वचनस्योक्तार्थतात्पर्यकत्वमपि ।
अथास्मिन् वि.सं.१९९३ वर्षे तस्मिन् टिप्पनके भाद्रशुक्लपक्षे बुधवासरे साधिकाः सप्तपञ्चाशद् घटिका यावत् चतुर्थी, गुरुवासरे षष्टिं घटिका यावत् पञ्चमी, शुक्रवासरेऽपि साधिके द्वे घटिके यावत् पञ्चमी । एवं गत१९९२ वर्षेऽपि द्वितीयभाद्रशुक्लपक्षे शनिवासरेऽष्टापञ्चाशद् घटिका यावत् चतुर्थी, रविवासरे षष्टिं घटिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org