________________
५४
ग्रन्थत्रयी द्वितीयकल्पे तु तीर्थकरेष्वसदचेलकत्वाऽयोगव्यवच्छेदबोधात्-अयोगःसम्बन्धाभावस्तस्य व्यवच्छेदो-निवृत्तिरिति द्वाभ्यां निषेधाभ्यां प्रकृतार्थदाद्यबोधनेनाऽव्यभिचारिताऽसदचेलकत्ववन्तस्तीर्थकरा इति बोधः ।
ये त्वन्ययोगव्यवच्छेदमात्रमेवकारार्थ इति मन्यन्ते तदभिप्रायेण तु, यथा-'शङ्खः पाण्डुर एवे'त्यत्र शके शङ्खत्वावच्छेदेन पाण्डुरान्ययोगव्यवच्छेदबोधः । तथाऽत्र तीर्थकरेषु तीर्थकरत्वावच्छेदेनाऽसदचेलकत्वान्ययोगव्यवच्छेदबोधः । उभयत्राऽपि तीर्थकरत्वव्यापकमसदचेलकत्वमिति तात्पर्यार्थः ।
तत्र पूर्वोक्तप्रथमपक्षानुसारिभिर्न प्रथमकल्प आदरणीयः । तस्य स्वाभिमतसिद्ध्यक्षमत्वात् । तथा हि-'सर्वेषामपि जिनानामसदचेलकत्व'मिति हि तेषामभिमतम् । तच्च न प्रथमकल्पेन सिद्ध्यति । प्रथमकल्पस्य हि 'तीर्थकरा एवाऽसदचेला' इत्यस्य तीर्थकरभिन्नेष्वसदचेलकत्वनिवृत्तावेव तात्पर्यात् । किञ्च तीर्थकराणामपि केषाञ्चित् सचेलकत्वस्य सदचेलकत्वस्य वाऽभ्युपगमेऽपि प्रथमकल्पार्थस्य निराबाधमेव घटनान्न स्वाभिमतार्थसिद्धिरिति 'तीर्थकरा असदचेला एवे'ति द्वितीयकल्पः स्वीकर्तव्यः ।
अथ सोऽपि कथं समीचीनतामभ्युपेयात् ? यतः तीर्थकराणां देवदूष्यानपगमं यावदसदचेलकत्वं वा सदचेलकत्वं वा सचेलकत्वं वा स्यात् ? । न तावदसदचेलकत्वम्। असदचेलकत्वस्य वास्तविकाऽचेलकत्वरूपत्वेन तस्य च सर्वथा चेलस्याऽविद्यमानत्व एव भावात् । सति देवदूष्ये तदसम्भवात् । तथा च तीर्थकरेष्वसदचेलकत्वाऽयोगव्यवच्छेदरूपस्य प्रकृतकल्पार्थस्य बाध एव, नाऽप्यत एव सदचेलकत्वं सचेलकत्वं वेत्यपि ।
किञ्च-'तीर्थकरा असदचेला एवे'त्यनेन कल्पेन तीर्थकाराणामसदचेलकत्वभिन्नस्य सदचेलकत्वस्य सचेलकत्वस्य च व्यवच्छित्तावपि तीर्थकरभिन्नानामसदचेलकत्वाव्यवच्छित्तेः तीर्थकरभिन्नानामपि असदचेलकत्वं प्राप्तम् । तच्च बाधितम् ।
न च तीर्थकरभिन्नानामपि जिनकल्पिकानामस्त्येवाऽसदचेलकत्वमिति वाच्यम् । जिनकल्पिकानामपि जघन्यतो रजोहरण-मुखवस्त्रिकासम्भवेन सचेलकत्वस्यैव परिभाषणात् । तथा च बाधितार्थाव्यवच्छेदकत्वेनाऽपि नाऽस्य कल्पस्याऽऽदरणीयतेति।
___ स्यादेतत् 'तीर्थकरा असदचेला एवे'ति कल्पस्य न हि निर्विशेषिततीर्थकरत्वावच्छेदेनाऽसदचेलकत्वबोधे तात्पर्य किन्तु देवदूष्यापगमविशेषणविशेषिततीर्थकरत्वावच्छेदेनैव तद्बोधे तात्पर्यमिति । व्यपगतदेवदूष्यास्तीर्थकरा असदचेला एवेत्येवंरूपार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org