SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ ५३ एवं वैदिका अपि 'ऋतौ स्वदारानुपेया'दित्यादौ एवकारं विनाऽप्ययोगव्यवच्छेदरूपैवकारार्थपर्यवसिते नियमे विधेस्तात्पर्य कल्पयन्ति । न तत्र स्वदारगमनादेरिष्टसाधनत्वे विधेस्तात्पर्यम् । स्वदारगमनादेलौकिकप्रमाणावगतेष्टसाधनताकत्वेनाऽविधेयत्वात् । प्रमाणान्तराऽप्राप्तप्रापकस्यैव श्रौतविधित्वात् । यथा- 'स्वर्गकामो यजेते'त्यादौ । तत्र यागादेः प्रमाणान्तरेणाऽप्राप्तेरिति । एवं-'पञ्च पञ्च नखान् भुञ्जीते'त्यादावपि विनैवैवकारमन्ययोगव्यवच्छेदरूपैवकारार्थपर्यवसन्नायां परिसख्यायां विधेस्तात्पर्य कल्पयन्ति । तेनाऽत्राऽपीष्टसाधनत्वे विधेस्तात्पर्य भोजनस्य रागप्राप्तत्वेनाऽविधेयत्वात् । नाऽपि नियमे, पञ्चनखानां पञ्चानामभोजनस्य प्रत्यवायहेतुत्वे मानाभावात् । न चैवं 'ऋतौ स्वदारानुपेयादि'त्यादावपि नियमो न स्यात् । ऋतौ स्वदारगमनाद्यभावस्य प्रत्यवायहेतुत्वे मानाभावादिति वाच्यम् । 'ऋतावुपेयात् स्वां भार्यामन्यथा भ्रूणहा भवे'दित्यादिनिन्दार्थवादबलादऋतुस्वदारगमनाद्यभावस्य प्रत्यवायहेतुता व्यवस्थित्यैव तत्र तद्विधेर्नियमपरत्वकल्पनाऽऽवश्यकत्वादिति । परिसङ्ख्यापि तत्र न शशादिपञ्चविधान् पञ्चनखानेव भुञ्जीतेत्याकारा, पञ्चनखभिन्नस्यौदनादेर्भोजनस्य निषिद्धत्वे प्रमाणाभावात् । किन्तु 'पञ्चैव पञ्चनखान भुञ्जीते'त्याकारा । तेन शशादिपञ्चभिन्नानां पञ्चनखानां भोजनं प्रत्यवायहेतुरित्येव तत्र वाक्यार्थ इति । केचित्तु-'लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ-सुराग्रहैरासु निवृत्तिरिष्टा ॥' ___इति वचनैदम्पर्यमाकलयद्भिः 'ऋतौ स्वदारानुपेया' दित्यादावपि परिसङ्यैव स्वीक्रियते । ऋतुभिन्नकाले गमनं प्रत्यवायहेतुः, ऋतुकाले च गमनाभावोऽपि न प्रत्यवायहेतुरित्येव हि तत्र तात्पर्यार्थ इति भावः । इत्यलं प्रसङ्गेन । ___अथेत्थम्-'तित्थगर असंतचेला' इत्यत्र कीदृशमवधारणं कार्यम् ? किं तीर्थकरा एवाऽसदचेला इति वा, तीर्थकरा असदचेला एवेति वा ? तत्र-प्रथमकल्पे तीर्थकरेतराऽवृत्ति यदसदचेलकत्वं तादृशाऽसदचेलकत्ववन्तस्तीर्थकरा इति बोधः । इति तीर्थकरेभ्योऽन्यस्मिन्नसदचेलकत्वसम्बन्धव्यवच्छेदः । तीर्थकरत्वव्याप्यमसदचेलकत्वमिति तात्पर्यार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy