________________
ग्रन्थत्रयी
इत्थं चाऽत्यन्तायोगव्यवच्छेदोऽपि क्वचिदयोगव्यवच्छेद एव पर्यवसितः । ज्ञानत्वावच्छेदेनाऽर्थग्राहकत्वात्यन्तायोगव्यवच्छेदस्य ज्ञानेऽर्थग्राहकत्वायोगव्यवच्छेदस्य च शब्दभेदेऽप्यर्थभेदाभावात् ।
५२
एवं येऽन्ययोगव्यवच्छेदमात्रमेवकारार्थं मन्यन्ते तेषामपि 'नीलं सरोजं भवत्येवे'त्यत्र तो धर्मिणि लक्षणया नीलभवनकर्त्रन्ययोगव्यवच्छेदस्य यथा सरोजत्वसामानाधिकरण्येनाऽन्वयबोधः, न तथा 'ज्ञानमर्थं गृह्णात्येवे' त्यत्राऽपि ज्ञानत्वसामानाधिकरण्येन तिने धर्मिणि लक्षणयाऽर्थग्राहकाऽन्ययोगव्यवच्छेदान्वयबोधः । किन्तु अन्वयितावच्छेदकज्ञानत्वावच्छेदेनैवाऽर्थग्राहकाऽन्ययोगव्यवच्छेदबोधः । सम्भवपरवाक्यस्याऽन्वयितावच्छेदकसामानाधिकरण्येनाऽन्ययोगव्यवच्छेदान्वये नियामकत्वेऽपि ज्ञानमर्थं गृह्णात्येवेत्यादेः नियमपरवाक्यस्याऽन्वयितावच्छेदकावच्छेदेनैवाऽन्ययोगव्यवच्छेदान्वये नियामकत्वात् ।
एवं चाऽन्ययोगव्यवच्छेदोऽपि 'ज्ञानमर्थं गृह्णात्येवे 'त्यत्राऽयोगव्यवच्छेद एव पर्यवसितः । ज्ञानत्वावच्छेदेनाऽर्थग्राहकान्ययोगव्यवच्छेदस्य ज्ञानेऽर्थग्राहकत्वायोगव्यवच्छेदस्य चाऽभिन्नार्थकत्वात् ।
एवं कार्मणमनाहारके भवत्येवेत्यत्राऽपि अत्यन्तायोगव्यवच्छेदस्याऽन्ययोगव्यवच्छेदस्य वा माऽयोगव्यवच्छेदपर्यवसानाऽऽशङ्का प्रासाङ्क्षीदिति न तथाऽवधारणमिति ।
तथा चैवशब्दं विनाऽपि व्यवच्छेदार्थकावधारणप्रतीतिर्भवत्येवेति तु सिद्धमेव निराबाधम् । अत एव च वैयाकरणानामपि 'कृत्तद्धितसमासाश्च' इत्यत्र 'समासग्रहणं नियमार्थम्' इत्यत्र विनाऽप्येवशब्दं नियमरूपावधारणसिद्धान्तः ।
न चाऽत्र समासे पाक्षिक्यां प्रातिपदिकसंज्ञायाः प्राप्तेरभावात् कथं नाम नियमः । युगपद्धि समास - समासेतरपदसङ्घातयोः 'अर्थवदधातुरप्रत्ययः प्रातिपदिक' मिति सूत्रं प्राप्तमिति परिसङ्ख्यैव भवितुमर्हतीति वाच्यम् ।
"विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चाऽन्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥"
इत्यनेन पूर्वतन्त्रानुसारिभिर्नियम- परिसङ्ख्ययोर्भेदेन परिभाषणेऽपि वैयाकरणालङ्कारिकाणां पाक्षिकप्राप्ति- युगपत्प्राप्तिरूपस्याऽवान्तरविशेषस्याऽविवक्षणात्रियमोऽपि परिसङ्ख्यैव, परिसङ्ख्यापि नियमशब्देनैवोच्यत इति सिद्धान्तादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org