________________
आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ भवतीति भावः ।
ननु, तत्र 'कार्मणकाययोगोऽनाहारके भवत्येवे'ति कथं नावधारणम् । न चाऽयोग्यवस्थायामनाहारकस्याऽपि सतः कार्मणकाययोगाभावान्न तथाऽवधारणमिति वाच्यम्। भवत्येवेत्यत्रैवकारेणाऽयोगव्यवच्छेदबोधने हि तथाऽवधारणं न स्यात्, तदाऽनाहारके कार्मणाऽयोगव्यवच्छेदस्य बोधात् । कार्मणाऽयोगव्यवच्छेदश्चाऽनाहारके कार्मणाऽव्यभिचरिततारूपस्तस्य चाऽयोग्यवस्थायां बाधात् । परं न तत्रैवकारस्याऽयोगव्यवच्छेदरूपाऽवधारणार्थकत्वम्, विशेषणसङ्गतैवकारस्यैवाऽयोगव्यवच्छेदरूपावधारणार्थकत्वात् । यथा-शङ्खः पाण्डुर एवेत्यत्र शङ्के पाण्डुरत्वाऽयोगव्यवच्छेदबोधः । कार्मणकाययोगोऽनाहारके भवत्येवेत्यत्र तु एवकारस्य क्रियासङ्गतत्वेनाऽत्यन्तायोगव्यवच्छेद एवार्थः । तथा च, यथा 'नीलं सरोजं भवत्येवे'त्यत्र सरोजत्वसामानाधिकरण्येन सरोजे नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदबोधनेऽयोग्यवस्थायामनाहारकस्य कार्मणकाययोगाभावेऽपि बाधकाभावात् । यद्यनाहारकत्वावच्छेदेनैव कार्मणकाययोगसत्ताकर्तृत्वाऽत्यन्तायोगव्यवच्छेदबोधो भवेत् तदैव तथा बाधसम्भवात् । तथा च कार्मणमनाहारके भवत्येवेति कुतो नाऽवधारणमिति चेत् ।
अत्रोच्यते-नीलं सरोजं भवत्येवेत्यत्र तु कदाचित्रीलत्वगुणवदभिन्नं यत्सरोजं तत्कर्तृका सत्तेति बोधः । कदाचित्तु अन्यादृशगुणसंयुक्तमित्यपि गम्यते । इति अत्यन्तायोगव्यवच्छेदो निर्बाधः । अत्र तु न तथा । कदाचिदनाहारके कार्मणकाययोगः कदाचित्तु अन्यादृशयोगोऽपीति बोधाभावात् । प्रत्युत, अनाहारके कदाचिदस्ति कार्मणकाययोगः कदाचित्तु अयोग एव-न कोऽपि योग इति बोधः । इति नाऽत्राऽत्यन्तायोगव्यवच्छेदस्य निर्बाधता । इति न कार्मणमनाहारके भवत्येवेति कृतमवधारणमिति ।
किञ्च, क्रियासङ्गतैवकारार्थस्याऽत्यन्तायोगव्यवच्छेदस्य न सर्वत्राऽन्वयितावच्छेदकसामानाधिकरण्येनाऽन्वयः, किन्तु क्वचिदन्वयितावच्छेदकावच्छेदेनाऽप्यन्वयः । यथा-'ज्ञानमर्थं गृह्णात्येवे'त्यत्र अर्थग्रहणकर्तृत्वात्यन्तायोगव्यवच्छेदस्याऽन्वयिताऽवच्छेदकज्ञानत्वावच्छेदेनैवाऽन्वयः, सर्वस्यापि ज्ञानस्यार्थग्राहकत्वादेव । न हि सरोजं यथा नीलमपि भवति अनीलमपि भवति तथा ज्ञानमर्थग्राहकमपि अनर्थग्राहकमपि भवति, येन नीलं सरोजं भवत्येवेतिवत् ज्ञानमर्थं गृह्यत्येवेत्यत्र ज्ञानत्वसामानाधिकरण्येनाऽर्थग्राहकत्वात्यन्तायोगव्यवच्छेदान्वयः स्यात् । किन्तुक्तप्रकारेणाऽन्वयितावच्छेदकज्ञानत्वावच्छेदेनैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org