SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अहं नमः ॥ श्रीस्तम्भनपतिपार्श्वनाथाय नमः ॥ श्रीमहावीरस्वामिने नमः ॥ सर्वलब्धिसम्पन्नश्रीगौतमस्वामिने नमः ॥ सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु-तपागच्छाधिपति-भट्टारकाचार्य श्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः ॥ आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ नत्वा श्रीस्तम्भनाधीश, नेमिसूरिं च सद्गुरुम् । आचेलक्यस्य सम्बन्धि, किञ्चित्तत्त्वं वितन्यते ॥१॥ इह हि तीर्थकरानाश्रित्याऽऽचेलक्यविचार प्रस्तूयते । तत्र कल्पकिरणावल्यां महोपाध्यायाः श्रीमन्तो धर्मसागरगणिनः-तच्च तीर्थकरमाश्रित्य चतुर्विंशतेरपि तेषां देवेन्द्रोपनीतदेवदूष्यापगमे तदभावादेवे'त्याहुः । कल्पसुबोधिकायां महोपाध्यायाः श्रीमन्तो विनयविजयगणिनस्तु-तच्च तीर्थेश्वरानाश्रित्य प्रथमान्तिमजिनयोः शक्रोपनीतदेवदूष्यापगमे सर्वदाऽचेलकत्वम्, अन्येषां तु सर्वदा सचेलकत्वमेव । यच्च किरणावलीकारेण चतुर्विशतेरपि जिनानां शक्रोपनीतदेवदूष्यापगमेऽचेलकत्वमुक्तं तच्चिन्त्यम्'उसभेणं अरहा कोसलिए संवच्छरं साहिअंचीवरधारी होत्थ' त्ति जम्बूद्वीपप्रज्ञप्तिवचनात्, 'सको अ लक्खमूलं सुरदूसं ठवइ सव्वजिणखंधे । वीरस्स वरिसमहिअं सया वि सेसाण तस्स ठिइ' ॥१॥ त्ति सप्ततिशतस्थानकवचनाच्चेति ज्ञेयमि'त्याहुः । अथाऽत्र 'दुविहो होइ अचेलो संताचेलो असंतचेलो य । तित्थगर असंतचेला संताचेला भवे सेसा ॥' इति बृहत्कल्पषष्ठोद्देशकभाष्यवचनम् । तवृत्तिश्चैवम्-'द्विविधो भवत्यचेलः । तद्यथा-सदचेलोऽसदचेलश्च । तत्र तीर्थकरा असदचेलाः । देवदूष्यपतनानन्तरं सर्वदैव तेषां वस्त्राभावात् । शेषाः सर्वेऽपि जिनकल्पिकादिसाधवः सदचेला भवेयुः । जघन्यतोऽपि रजोहरणमुखवस्त्रिकालक्षणोपकरणद्वयसम्भवा'दिति । एवं पञ्चाशकेऽपि - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy