________________
४८
ग्रन्थत्रयी
जिनचैत्यं जिनबिम्बं, जिनार्चा जिनदर्शनम् । यः कुर्याद्भावतस्तस्य, शिवावधि सुखावलिः ॥५६२॥ इत्थं संक्षेपतश्चेदं, प्रतिष्ठातत्त्वमीरितम् । सद्गुरूणां प्रभावेन, विस्तृतं बोध्यमन्यतः ॥५६३॥ निराकारोऽपि भक्तैक-कृपया धृतमूर्तिकः । श्रीवीरः शिवदो भूयात्, श्रीकदम्बपुरीस्थितः ॥५६४॥ अनिद्रमुनिवृन्दैर-प्याराध्यपदपङ्कजः । सर्वलब्धिनिधानं श्री-गौतमो मेऽस्तु सिद्धिदः ॥५६५।। गाम्भीर्योदयमर्यादा-स्थैर्यधैर्यादिसद्गुणैः । जयत्वब्धिरिवाचार्यो-नेमिसूरिर्जगद्गुरुः ॥५६६।। जीयानेमीति नामापि, पावनं भव्यदेहिनाम् । धर्मवृक्षस्य सद्बीजं, सर्वाभीष्टार्थसिद्धिदम् ॥५६७॥ श्रीतपागच्छनाथस्य, सूरीणां चक्रवर्तिनः । सर्वतन्त्रस्वतन्त्रस्य, तीर्थसाम्राज्यशालिनः ॥५६८।। तस्य पट्टधरः पूज्यः, सर्वशास्त्रविशारदः । सूच्यग्रवेधकप्रज्ञो-जयत्युदयसूरिराट् ॥५६९।। तस्य पट्टधरः सूरि-नन्दनश्चेदमुक्तवान् । प्रमादस्खलितं चात्र, सद्भिः शोध्यं कृपापरैः ॥५७०॥ अङ्काष्टाङ्कविधौ वर्षे, वैक्रमे फाल्गुने सिते । तृतीयायां शुभे सोमे, प्रतिष्ठाया महोत्सवे ॥५७१॥ अचिन्त्यपुण्यशालिश्री-नेमिसूरिप्रभावतः । कादम्बकमहातीर्थ-पुनरुद्धारवासरे ॥५७२।। श्रीकदम्बपुरीमध्ये, स्वपरस्मृतिहेतवे । ग्रन्थोऽयं पूर्णतामापद्-भव्योऽतः शिवमाप्नुयात् ॥५७३॥
समाप्तोऽयं ग्रन्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org