SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठातत्त्वम् स्वयं भ्रमोऽपि संवादी, यथा सम्यक् फलप्रदः । ब्रह्मतत्त्वोपासनापि, तथा मुक्तिफलप्रदा' ॥ ५२६ ॥ तथा चाऽऽहार्यरूपायाः प्रतिमायां धियोऽप्यथ । भक्तिश्च निर्जरा मुक्तिः, संवादित्वात् फलं मतम् ॥५२७॥ प्रत्यभिसन्दधानस्य, यथा चित्रितकामिनीम् । प्रादुर्भावो विकारादे-स्तथातो निर्विकारता ॥५२८॥ तंत्र चाऽशुभसंकल्पात् पापबन्धो यथा तथा । मूर्तौ च शुभसंकल्पाद्, ध्रुवं पुण्यपरम्परा ॥५२९॥ इत्थं विधिप्रतिष्ठायाः, पूजनातत्फलं प्रति या प्रयोजकता बोध्या, कृत्रिमप्रतिमासु सा ॥५३०|| शाश्वतेषु तु बिम्बेषु तथाऽनादिप्रतिष्ठया । बोध्या प्रतिष्ठितत्वस्य प्रत्यभिज्ञा प्रयोजिका ॥ ५३१ ॥ शिष्टस्याचारतस्तत्र, तथैव विधिबोधनात् । शास्त्रे नयोपदेशाख्ये, यदाह वाचकाग्रणीः ॥ ५३२॥ तत्कारणेच्छाजनक-ज्ञानगोचरबोधकाः । विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् ||५३३॥ प्रतिष्ठाद्यनपेक्षायां, शाश्वतप्रतिमार्चने । अशाश्वतार्चापूजायां को विधिः किं निषेधनम् ॥५३४॥ पूजादिविधयो ज्ञान - विध्यङ्गित्वं यदाश्रिताः । शाश्वताशाश्वतार्चासु, विभेदेन व्यवस्थिताः ||५३५ ॥ तत्त्वमेतस्य तद्वृत्तौ, ज्ञेयं विस्तरतोऽथवा । नयोपनिषदि ग्रन्थे, जगद्गुरुविनिर्मिते ॥५३६॥ प्रतिष्ठितस्य बिम्बस्य, पूजा च क्रियतेऽर्हतः । भक्त्या सुपुष्पधूपाद्यै- बहुधा सा यदाह च ॥५३७॥ Jain Education International For Private & Personal Use Only ४५ www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy