SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 8389 ४४ 'संवादिभ्रमवद्ब्रह्म-तत्त्वोपास्त्याऽपि मुच्यते । उत्तरे तापनीयेऽतः श्रुतोपास्तिरनेकधा ॥ ५१४ ॥ , मणिप्रदीपप्रभयो - मणिबुद्धयाऽभिधावतोः । मिथ्याज्ञानविशेषेऽपि, विशेषोऽर्थक्रियां प्रति ॥५१५ ॥ दीपो ऽपवरकस्याऽन्त - र्वर्तते तत्प्रभा बहिः । दृश्यते द्वार्यथान्यत्र, तद्वद् दृष्ट्वा मणेः प्रभा ॥ ५१६॥ दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्धयाऽभिधावतोः । प्रभायां मणिबुद्धिस्तु, मिथ्याज्ञानं द्वयोरपि ॥ ५१७॥ न लभ्यते मणिर्दीप- प्रभां प्रत्यभिधावता । प्रभायां धावताऽवश्यं, लभ्येतैव मणिर्मणेः ॥५१८ ॥ दीपप्रभामणिभ्रान्ति - विसंवादिभ्रमः स्मृतः । मणिप्रभामणिभ्रान्तिः संवादिभ्रम उच्यते ॥५१९ ॥ बाष्पं धूमतया बुद्ध्वा तत्राङ्गारानुमानतः । वनिर्यदृच्छया लब्धः, स संवादिभ्रमो मतः ॥५२०|| गोदावर्युदकं गङ्गोदकं मत्वा विशुद्धये । संप्रोक्ष्य शुद्धिमाप्नोति, स संवादिभ्रमो मतः ॥५२१॥ ज्वरेणाप्तः संनिपातं भ्रान्त्या नारायणं स्मरन् । मृतः स्वर्गमवाप्नोति, स संवादिभ्रमो मतः ॥ ५२२॥ प्रत्यक्षस्यानुमानस्य, तथा शास्त्रस्य गोचरे । उक्तन्यायेन संवादि-भ्रमाः सन्ति हि कोटिशः ॥५२३॥ अन्यथा मृत्तिकादारु-शिलाः स्युर्देवताः कथम् । अग्नित्वादिधियोपास्याः, कथं वा योषिदादयः ॥ ५२४ || अयथावस्तुविज्ञानात् फलं लभ्यत ईप्सितम् । काकतालीयतः सोऽयं, संवादिभ्रम उच्यते ॥५२५॥ Jain Education International For Private & Personal Use Only ग्रन्थत्रयी www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy