________________
४३
प्रतिष्ठतत्त्वम्
इत्यावश्यकता तस्य, प्रागुक्तस्य विधेः खलु । इत्ययं कल्पितः शास्त्रे, दर्शितस्तत्त्ववेदिभिः ॥५०२॥ अङ्गाङ्गिभावमापन्नः, सम्यगेवं निरूपिताः । शास्त्रेषु विधयः पूजा-प्रतिष्ठादिकगोचराः ॥५०३॥ आहार्यभेदरूपेयं, मूर्ती चाऽर्हन्मतिर्मता । योग्यतां समपेक्ष्यैव, प्रतिष्ठाद्यात्मिकां ध्रुवम् ॥५०४॥ आहार्यारोपहेतोर्हि, विधिनियन्त्रितत्वतः । इच्छाया विधियोग्यत्वं, नाऽनपेक्ष्य प्रवर्तनम् ॥५०५।। अत एव च जन्मादि-समयं विहितं विना । शकादयोऽपि नो शक-स्तवनादि पठन्त्यपि ॥५०६॥ यथा जन्मादिसमये, शक्राद्या निजकल्पतः । द्रव्यतो जिनजीवेषु योग्यतां समपेक्ष्य नु ॥५०७॥ भावार्हत्त्वं समारोप्य, तन्वते स्तवनादिकम् । तथा च योग्यतापेक्षा सुष्ठुक्ताऽऽहार्यसिद्धियः ।.५०८॥ द्रव्यलिङ्गिन्यतश्चैव, तत्र तत्र प्रकीर्तितः । साध्वन्तरगुणारोपा-नमस्कारोऽपि नोचितः ॥५०९।। सावद्यकर्मयुक्तत्वा-दारोपाविषयत्वतः । निरवद्यक्रियारूप-योग्यताया अभावतः ॥५१०॥ स्यादेतज्जिनमूर्त्यादौ, नोचिता तदभेदधीः । तस्या आरोपरूपत्वात, तस्य भ्रान्त्यात्मकत्वतः ।।५११॥ इति चेन्नैव, यद् भ्रान्ति-रप्यस्तीह फलावहा । यतोऽनेकत्र संवादि-भ्रमोऽनुभवगोचरः ॥५१२॥ भ्रमो द्विधा विसंवादि-संवादिभेदतो यतः । परैरप्युक्त एवायं, ध्यानदीपे तथा हि च ॥५१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org