________________
४२
ग्रन्थत्रयी
तदप्यपास्तमेतेन, यतो भक्त्या विशिष्टया । तादृशस्तुतिभाषायाः श्रेयोमूलत्वमेव हि ॥४९०॥ स्थाप्यस्थापनयोश्चोप-मेयोपमानयोस्तथा। भाषाविशेषतो भेद-तिरोधानविशेषतः ॥४९१॥ भावाद्भक्तिविशेषस्य, श्रेयोमूला हि बोधिता । सत्या सत्यामृषा भाषा, स्थापनायाचनादिषु ॥४९२॥ आरोपाध्यवसानाभ्या-मत एवापि लक्षणा । भेदाभेदविशेषेण, द्विविधोक्ता यदाह च ॥४९३॥ 'विषयस्याऽनिगीर्णस्या-न्यतादात्म्यप्रतीतिकृत् । सारोपा, स्यान्निगीर्णस्य, मता साध्यवसानिका' ॥४९३।। प्रतिष्ठितां यजेन्मूर्ति-मित्यर्चाया विधावपि । अभावात्तद्विधेस्तत्र, कथमाहार्यधीः परम् ॥४९४॥ इति चेदुक्त एवायं, विधिरप्येष वाङ्मये । इष्टसाधनताबुद्धि-द्वाराऽऽहार्यप्रयोजकः ॥४९६॥ . यद्भगवदभेदेन, प्रोर्मूर्ति प्रतिष्ठिताम् । आरोपयेदिति ज्ञान-विधिः शास्त्रेषु बोधितः ॥४९७।। ततस्तद्विधिवाक्येन, तादृशारोपगोचरा । इष्टसाधनताधीः स्या-दारोपेच्छाप्रयोजिका ॥४९८॥ यत आहार्यविज्ञानं, बाधकालेच्छयोद्भवेत् । ततः सिद्धैवमिच्छाया-आहार्यारोपहेतुता ॥ ४९९।। जिनाभेदे न मूर्ती मेऽ-ध्यारोपो जायतामिति । आरोपेच्छा च तत्र स्या-दिष्टसाधनताधिया ॥५००॥ मदिष्टसाधनं तत्रा-ध्यारोपस्तदभेदतः । इतीष्टहेतुताधीश्च, विधिवाक्येन नान्यतः ॥५०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org