________________
प्रतिष्ठतत्त्वम्
तथाऽलङ्कारिकैरित्थं चाध्यवसानवृत्तितः । अतिशयोक्त्यलङ्कारः, सङ्गीतः सङ्गतिं गतः ॥४७८॥ 'पश्य नीलोत्पलद्वन्द्वा-निःसरन्ति शिताः शराः' । इत्येतस्मिन्नलङ्कारे, भ्रम आहार्य एव हि ॥४७९॥ तथा च पूजकादीनां, दर्शनाभ्यर्चनादिकम् । आहार्यारोपतो बिम्बे, जिननाथस्य जायते ॥४८०) संग्रहे स्थापनायाः सं-स्थापनाया विचारणे । ग्रन्थे नयोपदेशाख्ये, यदाह वाचकाग्रणीः ॥४८१॥ प्रतिष्ठितप्रत्यभिज्ञा-समापनपरात्मनः । आहार्यारोपतः सा च, द्दष्ट्रणामपि धर्मभूः ॥ ४८२।। प्रसिद्धं च यतो गुण्य-भेदाध्यारोपतः खलु । तद्गतोत्कर्षवत्वस्य, प्रतीति: फलमद्भुतम् ॥४८३॥ अत एवहि गङ्गायां, घोष इत्यस्य भिन्नता । घोषो गङ्गातटे वाक्या-दित्यस्माच्छास्त्रविश्रुता ॥४८४|| गङ्गायां घोष इत्यत्र, गङ्गतीरे हि लक्षणा । गङ्गापदस्य तात्पर्या-नुपपत्त्या प्रकल्प्यते ॥४८५॥ तया च गङ्गया तत्रा-भेदस्याऽध्यवसायतः । व्यक्त्या प्रतीयते तीरे, शैत्यपावनतादिकम् ॥४८६॥ न च गङ्गातटे घोष, इत्यत्रैवं प्रतीयते । लक्षणाभावतोऽभेदा-ध्यारोपस्याप्यभावतः ॥ ४८७॥ इत्थं च रूपकालङ्का-रादिगर्भः स्तवादिभिः । स्तोतॄणां निर्जरालाभो-भक्त्युत्कर्षान्महान् मतः ॥४८८॥ यदाह लुम्पको मूर्ती-जिनोऽयं मोक्षदोऽस्तु मे । इत्यादीदं वचो मिथ्या कर्मबन्धाय केवलम् ॥४८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org