________________
४०
तदभावविनिश्चित्यां तद्बुद्धिर्नैव जायते । तदभावस्य यद्व्याप्यं तद्वत्तानिश्चयेऽपि नो ॥ ४६६ ॥
एवं तद्व्यापकाभाव- निश्चयेऽपि न सा भवेत् । यतोऽनुभवसंसिद्ध-मेतत्सर्वत्र तद्यथा ॥ ४६७॥ धूमाभावविनिश्चित्यां, धूमबुद्धिर्न जायते । धूमाभावस्य यद्व्याप्यं, जलं तनिश्चयेऽपि नो ॥ ४६८ ॥
तथार्द्रेन्धनसंयोगो-यो धूमव्यापकः खलु । निश्चये तदभावस्य न तद्बुद्धिः समुद्भवेत् । ४६९॥ प्रतिमायां तथैवात्र, कथं स्याज्जिनभावधीः । प्रत्यक्ष एव यत्तत्र, जिनत्वाभावनिश्चयः ॥ ४७०॥ जिनत्वाभावनियता - धर्माः पाषणतादयः । ये तेषां निश्चयाच्चापि नैव सा तत्र धीर्भवेत् ॥ ४७१ ॥ जिनत्वव्यापका ये च, धर्मा मनुजतादयः । मूर्ती तेषामभावस्य, निश्चयादपि सा न धीः || ४७२॥
तथाऽयं जिन इत्येवं, न मूर्ती धीः कदाचन । न चातो घटनाऽऽर्चादे - रित्युक्तं सम्यगेव नु ॥ ४७३॥
इति चेत्सत्यमेवैतत्, यत्र तत्र जिनत्वधीः । प्रमा नैवाऽप्यनाहार्य - भ्रमरूपापि सम्भवेत् ॥ ४७४।
परमाहार्यरूपोऽयं, भगवानित्यसौ भ्रमः । सम्भवति ध्रुवं मूर्ती जिनाऽभेदैकगोचरः || ४७५||
बाधकालेऽपि आहार्य-भ्रमोत्पत्तेरबाधनात् । ज्ञानं यद्बाधकालेच्छा - जन्यमाहार्यमुच्यते ॥ ४७६ ॥
अत एवाक्षपादाद्यैः सन्निधेरुपगम्यते । आहार्यभ्रमरूपत्वं, बाधकालेऽपि मूर्तिषु ॥ ४७७ ॥
Jain Education International
For Private & Personal Use Only
ग्रन्थत्रयी
www.jainelibrary.org