________________
प्रतिष्ठातत्त्वम्
तन्मन्त्रादेः प्रतिष्ठादे- विधेर्माहात्म्यमद्भुतम् । बोध्यमन्यत्र सर्वत्रा-ऽथाऽतः प्रकृतमुच्यते ॥ ४५४॥
प्रतिष्ठा चात्र सद्भक्ति - विशेषद्वारतः खलु । हेतुः पूजाफलेष्वित्थं, मूर्तिषु विधिना कृता ॥ ४५५ ।।
प्रतिष्ठितत्वविज्ञानं, प्रतिष्ठातो यतो भवेत् । ततश्चाऽऽधीयते भक्ति - विशेषो ह्येव पूरुषे ॥ ४५६॥
भक्तिद्वारा च सा पूजा, फलदा सम्मता बुधैः । प्रतिष्ठाध्वंसतज्जन्य- शक्त्योर्नादर एव हि ॥ ४५७॥
अस्पृश्यश्वपचादीनां, स्पर्शादौ सति मूर्तिषु । तस्य च प्रतिसन्धाने, भक्तिर्द्वारं न जायते ॥ ४५८ ॥
तथा भक्तिविशेषात्म-द्वारस्याऽभावतो भवेत् । प्रवर्तनं न पूजायां न च साऽपि तथाफला ॥ ४५९॥ यतो भक्तिविशेषैक - व्याघातकत्वमीरितम् । उक्तस्य प्रतिसन्धान- स्येति नात्राऽसमञ्जसम् ॥ ४६०||
स्पृश्यास्पृश्यविचारोऽत्र, शास्त्रसिद्धान्तबोधितः । ग्रन्थान्तरात् सुविज्ञेयो- गौरवान्नेह तन्यते ॥ ४६१॥
अथ प्रतिष्ठितत्वेऽपि, प्रतिमायां न वन्दना । पूजना नापि भक्तिर्नो, तत्फलान्यपि नैव च ॥ ४६२॥
यतोऽयं जिन एवेति जिनतादात्म्यगोचरम् । बिना बोधं कथं पूजा- दिकं तत्र नु सम्भवेत् ॥ ४६३ ॥
पूजादिविषये तत्र, भगवत्त्वधियं विना । यत्र पूजादिकं हेतु - सहस्रेणापि सम्भवि ॥ ४६४ ॥
तादृशाया धियश्चात्र, सम्भवो नैव सर्वथा । पाषाणत्वादिना भेद - प्रत्यक्षे तु स्वभावतः ॥ ४६५ ॥
Jain Education International
For Private & Personal Use Only.
३९
www.jainelibrary.org