________________
३८
ग्रन्थत्रयी
क्रमात् फणेषु सर्वेषु, सर्वेष्वङ्गेष्वपि क्रमात् । सुधाधारा इवाऽम्बूनां वृष्टा धाराः सहस्रशः ॥ ४४२॥ प्रासादेऽपि च सर्वत्रा-ऽधश्चोपरि तथाऽभवत् । सुगन्धाद्वैतरूपश्च, समस्तोऽभूज्जिनालयः ॥ ४४३।। स्थितं तदद्भुतं यावत्, प्रहराणां चतुष्टयम् । जातं चाऽऽबालगोपालं, दर्शनं तच्चमत्कृतेः ॥ ४४४॥ नेदं भगवतो बिम्बं, किन्तु साक्षादयं प्रभुः । इत्येवं हृदये प्रायः, सर्वेषां स्फुरितं तदा ॥४४५।। साक्षाद्भगवता ह्येव, प्रसन्नीभूय भूतले । भव्यानिवामृतीकर्तुं, सुधाधाराः प्रवाहिताः ॥ ४४६॥ वस्तुतस्तस्य तीर्थस्या-ऽधिष्ठात्राऽतश्चमत्कृतेः । सेरीसापार्श्वनाथस्य, प्रभावः प्रकटीकृतः ॥ ४४७॥ मूर्ती प्रतिष्ठितत्वस्य, विधेमन्त्रादिकस्य च । सर्वमेतद्धि माहात्म्यं विज्ञेयं विशदाशयैः ॥ ४४८॥ उपायशतकेनापि, नान्यथेयं चमत्कृतिः । पाषाणमयबिम्बेषु, धारावाहः कथं यतः ॥ ४४९।। मन्त्रादिभिः समाकृष्टाः, सुरास्तीर्थप्रभावकाः । किन्त्वेवमेवमाश्चर्य, भक्तिभावाय तन्वते ॥ ४५०॥ श्रीसेरीसकतीर्थस्य, चमत्कारस्य वर्णनम् । इत्येवं किञ्चिदाख्यातं, प्रसक्तानुप्रसक्तिमत् ॥ ४५१।। एवं शङ्गेश्वराधीश-पार्श्वनाथप्रभावतः । गीयतेऽनेकशास्त्रेषु, जराया विनिवारणम् ।। ४५२॥ एवंच स्तम्भनाधीश-पार्श्वनाथप्रसादत : । आचार्याभयदेवस्य, कुष्ठरोगस्य निर्वृतिः ॥ ४५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org