________________
२५
प्रतिष्ठातत्त्वम्
तदैव जिनप्रासादो-महानारभ्यताऽञ्जसा । कदम्बगिरिराजस्या -धस्तात्परिसरे वरे ॥ ४०६॥ स क्रमात् पूर्णतामापद् द्वापञ्चाशज्जिनालयैः । शोभनः पुष्कलद्रव्य - व्ययेनाऽत्यन्तबन्धुरः ॥४०७॥ एवं गिरेः कदम्बस्यो - पत्यकायामपि क्रमात् । प्रारम्भो जिनचैत्याना-मभवद्भरिभूतिदः॥४०८॥ विहर॑श्च सुखं सूरिः, कदम्बपुरतः शनैः । गत्वा भण्डारिकाग्रामे, प्रतिष्ठां च व्यधापयत् ॥ ४०९॥ स्वोपदेशेन सुश्राद्ध - निर्मापितजिनालयम् । तालध्वजगिरिं गत्वा, पुरीं मधुपुरीं गतः ॥ ४१०॥ तत्राभूच्च चतुर्मासी, ततोऽपि विमलाचलम् । प्रति निर्गतवान् सङ्घः, तत्र सूरीश्वरोऽप्यगात् ॥ ४११॥ विहरन् सह सङ्केन, सूरिरागतवान् क्रमात् । कदम्बाख्यगिरि हस्त-गिरि सिद्धाचलं तथा ॥ ४१२॥ यात्रां विधाय सङ्घश्च, प्रत्यगान्निजकां पुरीम् । पुनः प्रयातवान् राज-नगरं सूरिपुङ्गवः ॥ ४१३॥ चतुर्मासी स्थितस्तत्र, पुनः सेरीसकं गतः । प्रत्यागत्य चतुर्मासी, पुनस्तत्रैव संस्थितः ॥ ४१४॥ क्रमात्सेरीसके तीर्थे, नूतने जिनचैत्यके । पार्श्वनाथप्रवेशस्य, निर्णयः श्रावकैः कृतः ॥ ४१५॥ सूरीश्वरोऽप्यगात्तत्र, प्रारब्धश्च महोत्सवः । कुम्भस्थापनमुख्याश्च, क्रियाः सर्वाः प्रवर्तिताः ॥ ४१६॥ एवं भगवद्विम्बेषु जाता या भूरिकालतः । अनेकाशातनास्तासां, परिहारकृते पुनः ॥ ४१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org