SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३४ नक्तमौषधयो यत्र, निजभादीपसंचयैः । तमो हरन्ति दारिद्र्य - मिव निर्भाग्यमन्दिरात् ॥ ३९४॥ छायावृक्षाः कल्पवृक्षा अत्र सन्ति सनातनाः । रुचकाद्राविव स्वैरं यच्छन्ति बहु वाञ्छितम् ॥ ३९५॥ कालहानेः क्रमेणैते, न भविष्यन्ति गोचराः । मर्त्यानामिव वर्षासु, मेघच्छ्न्नरवेः कराः ॥ ३९६॥ परशृङ्गवदेतच्च, शृङ्गं कालुष्यनाशनम् । भवद्वयोपकारित्वात्, ख्यातिमेति पुनर्भृशम् ॥ ३९७|| महिमानमिति श्रुत्वा, चक्री कादम्बभूभृतः । तत्रानेकद्रुमाकीर्णे, धर्मोद्याने महामनाः || ३९८|| प्रासादं वर्द्धमानस्य, चतुर्विंशस्य भाविनः । अचीकरद्वर्धकिना, नाकिनायकसम्मतम् ॥ ३९९॥ कादम्बात्पश्चिमे शृङ्गे शत्रुञ्जयनदीतटे । गजवाजिमयी सेना, चक्रिणोऽस्थाच्च काचन ॥ ४०० || तत्र रोगादिनिर्मुक्ता, हस्त्यश्ववृषपत्तयः । केचित्स्वर्गमयुस्तीर्थ-योगादप्यविवेकिनः ॥ ४०१ ॥ तेऽथ स्वर्गात्समागत्य, प्रणिपत्य नराधिपम् । स्वस्वर्गसौख्यलाभं तं, कथयामासुराशु च ॥ ४०२ ॥ तत्र स्वमूर्त्तिसंयुक्तान्, प्रासादानप्यकारयन् । स तदादिगिरिर्जातो - हस्तिसेनाभिधो महान् ' ॥४०३|| कदम्बाख्यगिरेरेवं, वर्णनं वर्णितं बहु । श्रीशत्रुञ्जयमाहात्म्ये, श्रीधनेश्वरसूरिभिः ॥ ४०४ ॥ सूरिराजोऽपि तत्तीर्थ- समुद्धारस्य देशनाम् । व्यतरद्भव्यदेहिभ्यो - वचः पीयूषधारया ॥४०५॥ Jain Education International For Private & Personal Use Only ग्रन्थत्रयी www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy