________________
प्रतिष्ठातत्त्वम्
कदम्बगिरिमाचार्यो, यात्रार्थं च ततोऽगमत् । तदुद्धारैकचेतस्कः, सदा तद्ध्यानतत्परः ॥३८२॥ कदम्बगिरिराजो हि तद्ध्यानारूढचेतसाम् । साधकश्चिन्तितार्थानां शत्रुञ्जयगिरिर्यथा ॥ ३८३॥ यत्स शत्रुञ्जयस्याद्य-शृङ्गवत् सर्वसिद्धिभृत् । महाप्रभावकश्चैव, शास्त्रेषूक्तो यदाह च ॥ ३८४॥ 'अथो कादम्बकगिरौ, श्रीनाभं भरतोऽवदत् । भगवन् ! किंप्रभावोऽयं, पर्वतः ख्यातिमान् बहु ? ||३८५॥
गणाधीशोऽप्यथोवाच, चक्रिन् ! श्रृणु कथानकम् । उत्सर्पिण्यामतीतायां चतुर्विंशो जिनोऽभवत् ॥३८६ ॥
सम्प्रतेरर्हतस्तस्य, कदम्बाख्यो गणाधिपः । मुनिकोटिभिरत्रागात्, सिद्धिं कादम्बकस्ततः ॥ ३८७॥
सन्त्यत्र दिव्यौषधयः, प्रभावपरिपेशलाः । रसकूप्यो रत्नभुवः, कल्पवृक्षास्तथाऽपरे ॥३८८॥
दीपोत्सवे शुभे वारे, संक्रान्तावुत्तरायणे । न्यसेन्मण्डलमत्रैत्य, स्युः प्रत्यक्षा हि देवताः ||३८९॥ न ता औषधयः काश्चिद्रसकुण्डानि तानि च । सिद्धयोऽपि न ताः सन्ति, या न सन्ति गिराविह ॥ ३९०॥
सुराष्ट्रमण्डलभुवो- दारिद्र्येण कथं जनाः । पीड्यन्ते यत्र कादम्ब - गिरिः सिद्धिनिकेतनम् ? ॥३९१॥
कदम्बेनापि नो यस्य, दारिद्र्यदुरघाति हा । निर्भाग्य इति तं नैव, रोहणाद्रिः प्रतीच्छति ॥३९२॥
तुष्टो यस्यास्त्ययं शैलः कामधेनु-सुरद्रुमाः । चिन्तामण्यादयस्तस्य, सर्वे तुष्टाः समन्ततः ॥ ३९३॥
Jain Education International
For Private & Personal Use Only
३३
www.jainelibrary.org