________________
३२
ग्रन्थत्रयी
तत्र नाभेयचैत्यस्योद्धारं कारितवान् स्वयम् । भव्योपदेशदानेन, पुष्कलाच्च धनव्ययात् ॥३७०॥ एवमासन्नग्रामेऽप्य-कारयत् शर्करे पुरे। विहरज्जिनचैत्यस्य, समुद्धारं प्रयत्नतः ॥३७१॥ ततो व्यधात् पुना राज-नगरे सूरिचक्रिराट् । चतुर्मासी तथाऽन्यां ता-मपि तत्रैव चक्रिवान् ॥३७२॥ एवञ्चैव चतुर्मासी, व्यधाच्चाणसमापुरे । ततः सा चाभवत्सूरेः, पत्तनाख्ये महापुरे ॥३७३॥ तत्रापि तीर्थयात्रायाः, संघस्य निर्णयोऽभवत् । रैवताचलयात्रार्थं, सल्लग्ने प्रस्थितश्च सः ॥३७४।। सूरिणा सह संघोऽगा-त्तीर्थं शंखेश्वराभिधम् । तत्र मालाविधिं सूरि-य॑धात् संघपतेः स्वयम् ॥ ३७५॥ ततः क्रमाच्चलन् संघो,-ध्राङ्गध्रापुरमागमत् । ततोऽग्रे प्राचलत्संघः, सूरिस्तत्रैव तस्थिवान् ॥३७६।। वर्त्मनश्चातिदीर्घत्वा-त्तीर्थसत्कादिकार्यतः । चतुर्मासी क्रमाद्राज-नगरे सूरिराड् व्यधात् ॥३७७॥ ततोऽगात् स्तम्भतीर्थे स, नवीने तत्र कारिते । प्रासादे स्तम्भनेशस्य, प्रतिष्ठां च व्यधापयत् ॥३७८॥ तथाऽञ्जनशलाकाऽपि, व्यधाय्याचार्यचक्रिणा । बहूनां जिनबिम्बानां, चतुर्मास्यपि तत्र च ॥३७९।। यात्रार्थं निरयात्सङ्घः, शत्रुञ्जयगिरि प्रति । सूरेः सदुपदेशेन, स्तम्भतीर्थाच्च पुण्यभाक् ॥३८०।। सूरिणा सह सङ्घोऽगात् क्रमाच्छत्रुञ्जयाचलम् । समाप्याऽखिलमालादि-कृत्यं सङ्घश्च प्रत्यगात् ॥३८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org