SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३१ प्रतिष्ठातत्त्वम् कृता तत्र चतुर्मासी, तत्र सूर्युपदेशतः । धूलेवातीर्थयात्रायै, सङ्घस्याऽभूद्विनिश्चयः ॥३५८॥ सेरीसकस्य तीर्थस्य, वर्त्मना सूरिसद्गिरा । प्रयाणं कृतवान् सङ्घः, क्रमात्ततीर्थमागतः ॥३५९॥ सूरीश्वरोऽपि तत्तीर्थ-समुद्धारैकमानसः ॥ तदोपदेशतस्तीर्थो-द्धारारम्भमसूत्रयत् ॥३६०॥ क्रमशोऽगाच्च धूलेवा-तीर्थं सङ्घश्च सूरिराट् । समाप्याऽशेषतत्कार्यं सङ्घः प्रतिगतः क्रमात् ॥३६१॥ सूरिराजः पुनस्त्वग्रे, मेदपाटे प्रयातवान् । उदयपुरमायात-श्चतुर्मासी च तस्थिवान् ॥३६२॥ राणकपुरतीर्थस्य यात्रायै निर्गतस्ततः । सूरीश्वरगिरा सङ्घ-स्तत्र सूरि ः प्रयातवान् ॥३६३॥ यात्रां कृत्वा ततः सूरि-र्जावालाव्यपुरेऽगमत् । ततोऽपि निर्गतः सङ्घः, सिद्धाचलगिरि प्रति ॥३६४॥ जीरावस्यभिधं तीर्थ, सङ्घ आगतवान् क्रमात् । ततोऽर्बुदगिरि-कुम्भा-रिकातीर्थं ततोऽगमत् ॥३६५॥ तदा कुम्भारिकातीर्थो-द्धारोऽभूत् सूरिसद्गिरा । ततः शङ्केश्वरं तीर्थं, सूरिस्तत्रैव तस्थिवान् ॥३६६॥ सङ्घः शत्रुञ्जयं यातः, सूरिशिष्यैरलङ्कृतः । क्रमात्सेरीसकं तीर्थं, यात आचार्यपुङ्गवः ॥३६७॥ चतुर्मास्यभवद्राज-नगरे श्रीभृते ततः । तद्भक्त्येकमनाः सूरि-र्गत: सेरीसकं पुनः ॥३६८॥ स्तम्भतीर्थे महातीर्थे, पावने च पुरातने । क्रमात्संघाग्रहात् सूरि-श्चतुर्मासीमवस्थितः ॥३६९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy