________________
ग्रन्थत्रयी
स्वयम्भूपार्श्वनाथस्य, तत्रासीद्विम्बमद्भुतम् । अन्यतोऽन्यानि बिम्बानि, सूरिणाऽऽनायितानि च ॥३४६।। अत्यद्भुतं महद्विम्बं शान्तिनाथस्य चाऽनघम् । पालीग्रामं स्वयं सूरि-र्गत्वाऽऽनायितवांस्ततः ॥३४७। तच्च प्रतिष्ठितं पूज्यै-भगवद्भिः सुहस्तिभिः । पुरा सम्प्रतिराजेन, श्रेयसे स्वस्य कारितम् ॥३४८॥ प्रासादे तत्र तीर्थे च, चतस्रश्चैव भूमयः । प्रतिमा स्थापनायोग्या नाऽन्या ह्याकृतिमात्रतः ॥३४९।। माघशुक्लस्य पञ्चम्यां, चतसृष्वेव भूमिषु । विधिना जिनबिम्बानि, सूरिरस्थापयत्ततः ॥३५०॥ मिलितानि सहस्राणि, जनानां तत्र भूरिशः । विहितश्चोत्सवः श्राद्ध-वृद्धस्नात्रादिकैर्महान् ॥३५१॥ उत्सवं पालडीवासी, सैव सङ्घपतिळघात् । चत्वारिंशत्सहस्राणां, रूप्यकाणां व्ययेन च ॥३५२॥ मदिरा-जीवहिंसाद्यै-झटिलोकादिभिः कृताम् । तत्राप्याशातनां घोरां, प्रयत्नेन न्यवारयत् ॥३५३॥ विविधान् विघ्नसंघातान्, प्राणस्याप्यनपेक्षणात् । सहित्वापि तदुद्धारं, धर्मवीरो व्यधापयत् ॥३५४॥ कर्पटहेटकोद्धार-विस्तृतं वर्णनं परम् । प्रसङ्गाद्दर्शितं किञ्चिद्, ग्रन्थबाहुल्यभीतितः ॥३५५॥ विहत्याथ मरौ देशे, क्रमादाचार्यपुङ्गवः । प्रयातश्चार्बुदे तीर्थे, तथा कुम्भारिकागिरौ ।३५६॥ तारङ्गाख्यगिरेस्तीर्थात्, क्रमात् सेरीसकात्पुनः । गौर्जरात्याग्रहाद्राज-नगरे समुपागमत् ॥३५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org