SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठातत्त्वम् त्रयोदशदिनीं सङ्घः स्थित्वा यात्रोत्सवादिभिः । पुराणं तत्र चित्कोशं दृष्ट्वा च हर्षितोऽभवत् ॥३३४|| त्रयोदश्यां च चैत्रस्याऽसितपक्षस्य सूरिराट् । मालां सङ्घपतेः सम्यग्, विधिनाऽऽरोपयत्तराम् ॥ ३३५॥ श्रीसङ्घस्तद्दिनेनैव ततः प्रतिविनिर्गतः । सूरिणा सह सम्प्रातः फलवर्द्धिपुरं क्रमात् ॥ ३३६|| सूरीशश्च चतुर्मासीं कृतवांस्तत्र साग्रहम् । स्वस्थानं च पुनः संघः क्रमात्प्रतिगतः सुखम् ||३३७|| ततः परं चतुर्मास्याः सूरीशो विहरन् क्रमात् । तन्वन् वचोऽमृतैर्भव्य-भवसन्तापसान्त्वनम् ॥३३८॥ कर्पटटकाख्येऽगात्, तीर्थे यत्र विमानवत् । स्वयम्भूपार्श्वप्रासादो, राजते सप्तभूमिकः ॥ ३३९॥ विहृत्याऽऽगात्ततः सूरिः पालीग्रामे पुरातने । स्थित्वा तत्र चतुर्मासी - मन्यत्र व्यहरत्ततः ॥३४०|| भव्यान् प्रबोधयन् सूरिः खाण्डग्रामे समागमत् । सैव सङ्घपतिश्चाऽन्येऽप्यागतास्तत्र वन्दितुम् ॥३४१॥ सङ्घपत्यादिभिस्तत्र, प्रतिष्ठानिर्णयः कृतः । तीर्थे सूर्युपदेशेन, कर्पटहेटकाभिधे ॥ ३४२ ॥ यात्रायै तस्य तीर्थस्य सङ्घस्तदुपदेशतः । पालीतो निरयात्तत्र, सङ्घ सूरीश्वरोऽप्यगात् ||३४३|| प्राप्तः क्रमेण तत्तीर्थं श्रीसङ्घः सूरिणा सह । शुभे दिने च मालाया विहितं परिधापनम् ॥ ३४४॥ प्रतिष्ठासत्ककर्माऽथा-ऽऽरब्धं श्राद्धैश्च सूरिणा । प्रावर्तन्तोत्सवाः कुम्भ - ग्रहार्चागीतकादयः ॥ ३४५॥ Jain Education International For Private & Personal Use Only २९ www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy