________________
ग्रन्थत्रयी
विहरनेवमाचार्यो - दुर्गेऽगात्कोमलाभिधे । सहस्राण्यत्र षटत्रिंशत्,श्राद्धागाराः पुरा बभुः ॥ ३२२।। शतानि जिनचैत्यानां, त्रीणि षष्ट्यधिकानि च । तद् व्यनेशत् कमात्सर्वं, किन्तु कालानुभावतः ॥३२३|| यं दुर्गं शरणीकृत्य, मेदपाटनराधिपः । प्रतापः प्राणभोगेना-ऽप्यार्यधर्म ररक्ष सः ॥३२४|| निभाल्य तत्र तत्सर्वं, दृश्यं सूरिः पुरातनम् । कल्पद्रुर्जङ्गमः साक्षा-त्ततश्चावातरन्मरौ ॥३२५।। पञ्चतीर्थ्यां च चैत्यानि, वन्दित्वा तत्र बोधयन् । भगवद्विम्बतत्पूजा-विमुखान् पुष्कलान् जनान् ॥ ३२६।। ग्राहयंश्चैव सद्धर्म, धर्मसाम्राज्यमद्भुतम् । विस्तारयश्च सर्वत्र, वादिवारणकेसरी ॥३२७॥ क्रमात्साद्रौ चतुर्मासी, विधाय सादरं वराम् । ततो निष्क्रम्य सूरीशः, पञ्चतीर्थां गतो लघुम् ॥३२८॥ नमस्यन् भूरिचैत्यानि, पावयन् मरुभूमिकाम् । आगमत् पालडीग्राम, शिरोहीराज्यवर्तिनम् ॥३२९॥ सूरीश्वरोपदेशेन, यतस्तत्र पुराऽभवत् । जेसलमेरतीय, सङ्घयात्राविनिर्णयः ॥३३०॥ माघासितद्वितीयेऽह्नि, सुलग्ने सर्वसिद्धिदे । प्रयाणं कृतवान् सङ्घः, सूरिणा सह सोत्सवम् ॥३३१|| ग्रामानुग्राममातन्व-न्नपूर्वां शासनोन्नतिम् । साधर्मिकाणां वात्सल्यं, साफल्यं द्रविणस्य च ॥३३२॥ एवञ्च मधुमासस्य, पूर्णिमायां कमात् क्रमात् । तीर्थं जेसलमेराख्यं, श्रीसङ्घः प्राप्तवान् सुखम् ॥३३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org