________________
प्रतिष्ठातत्त्वम्
उन्मार्गपतितानस्मा-नेवं निवारयत्यसौ । सूरिणा सकलैश्चेत्थं, साक्षात्त्वेन विनिश्चितम् ॥ ३१०॥
प्रतिजग्मुस्ततस्तस्मात्, सर्वेऽपि भ्रान्तवर्त्मनः । मार्गं दिव्यानुभावेन, दर्शितं वरमन्वयुः ॥ ३११॥
कियद्दूरं गते मार्गे, व्योमगी: सूचितं सितम् । सर्वेऽपि ददृशुः क्षेत्रं, निरचिन्वँश्चमत्कृतिम् ॥ ३१२॥
क्रमेणेष्टपुरं प्राप्ताः सर्वेऽपि सुखपूर्वकम् ।
"
प्रागेवागतवान् सोऽपि, साधुः सम्मिलितः सुखम् ॥३१३॥ आश्चर्यव्याजतो मन्ये, तीर्थाधिष्ठायकोऽमरः । व्यतनोत्सूचनां सूरे- स्तीर्थोद्धारस्य भाविनः || ३१४॥
क्रमेण विहरन् सूरिः शिष्यवृन्दसमन्वितः । ग्रामे कार्पटवाणिज्ये, चतुर्मासीं मुदा व्यधात् ॥ ३१५॥
ततोऽपरां चतुर्मासीं, राजनगर आतनोत् । ततश्चार्बुदतीर्थस्य, यात्रायै प्रययौ प्रभुः || ३१६ || मरुदेशे हि भव्यानां, प्रतिबोधनहेतवे । क्रमाद्वधाच्चतुर्मासीं, पुरे जावालनामनि ॥ ३१७॥
प्रतिबोध्य जनाम् सर्वान्, स्तुतित्रयमतानुगान् । ददौ तेभ्यश्च सन्मार्ग चतुर्थस्तुतिशोभितम् ॥ ३१८।।
अनन्तरं चतुर्मास्या - स्ततो विहृत्य सूरिराट् । सर्वतन्त्र स्वतन्त्रः स, मेदपाटेऽगमत् क्रमात् ॥ ३१९॥
दयादानजिनार्चादि- धर्मकृत्यपराङ्मुखान् । तत्र प्रबोधयन् भव्याँ - स्त्रयोदशपथानुगान् ॥ ३२० ॥
स्तिमितान्तर मिथ्यात्त्व - ध्वान्तविध्वंसमञ्जसा । कृत्वा तेषां च सन्मार्गं व्यतरन्निभरैर्गवाम् ॥ ३२१॥
Jain Education International
For Private & Personal Use Only
२७
www.jainelibrary.org